१८ तमायाः लोकसभायाः प्रथमसत्रं सोमवासरात् आरभ्यते
१८ तमायाः लोकसभायाः प्रथमसत्रं सोमवासरात् आरभ्यते। अस्मिन् सत्रे नवनिर्वाचितानाम् लोकसभासदस्यानां शपथग्रहणं भविष्यति। भारतीयजनतादलस्य वरिष्ठसांसदः भर्तृहरीमहताबः सदस्येभ्यः शपथं कारयति। सः अस्थायी अध्यक्षः नियुक्तः अस्ति । लोकसभायाः नूतनसभापतिनिर्वाचनं जूनमासस्य २६ दिनाङ्के भविष्यति, राष्ट्रपतिः द्रौपदी मुर्मूः २७ जून दिनाङ्के संसदस्य द्वयोः सदनयोः संयुक्तसमागमं सम्बोधयिष्यति। राज्यसभायाः अधिवेशनं जूनमासस्य २७ दिनाङ्कात् आरभ्यते। संसदस्य सत्रस्य समाप्तिः जुलाईमासस्य ३ दिनाङ्के भविष्यति
१८ तमायाः लोकसभायाः प्रथमसत्रं सोमवासरात् आरभ्यते
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment