SMC Election 2024 : सावित्री राजकीय-उच्च-पाठशालाया: बिजन-ढलवानस्य एसएमसी-अध्यक्षा निर्वाचिता,
सर्वसम्मत्या अभवत् चयनम्
हिमसंस्कृतवार्ता: – लघ्वीकाशी मण्डी।
समग्रशिक्षाभियानस्य हिमाचलप्रदेशस्य परियोजनानिदेशकस्य निर्देशानुसारं राजकीय-उच्च-पाठशालाया: बिजन-ढलवानस्य विद्यालयप्रबन्धनसमित्याः (एसएमसी) सधारणसभाया: गोष्ठी २१-०६-२०२४ दिनाङ्के राजकीयोच्चविद्यालये बिजन-ढलवाने मुख्याध्यापिकाया: अध्यक्षतायां सम्पन्ना। यस्यां पूर्वतनकार्याणां समीक्षा कृता। रचनात्मक-आकलनस्य प्रस्तुतिकरणं अपि च अग्रिमत्रिवर्षेभ्यः विद्यालयप्रबन्धनसमित्या: सङ्घटनम् कृतम्। यस्मिन् चन्द्रावती अध्यक्षाय सावित्र्या: नाम प्रस्तुतवती तथा उपस्थितै: सदस्यै: सर्वसम्मत्या सावित्र्या: नाम्न: समर्थनं कृतम्। अतः सावित्री देवी सर्वसम्मत्या एसएमसी- अध्यक्षा निर्वाचिता, अनेनैव विजयकुमार:, गोपाल:, ममता देवी, वीना कुमारी, सोना देवी, मंघरी देवी एते अभिभावका: कार्यकारी सदस्या: तथा च पिंकी देवी, कुलदीप: च अध्यापकसदस्यौ अधिकृतौ। नवनिर्वाचिता अध्यक्षा अवदत् यत् शिक्षाया: सार्वभौमिकरणाय तथा राष्ट्रीयशिक्षानीतौ अभवत् परिवर्तनेन साकं निर्धारिताणां लक्ष्याणां विद्यालये प्राप्तुं किञ्च छात्राणां शैक्षणिकोपलब्धौ उन्नयनाय सामुदायिक-सहभागिताया: वर्धने सार्थकप्रयासा: करिष्यन्ते। विद्यालयस्य मुख्याध्यापिकया मोनिकाठाकुर द्वारा नवनिर्मिताया: कार्यसमित्या: अभिनन्दनं कृतम्। अपि च विद्यालयप्रबन्धन-समित्या: के के कर्तव्या: कानि च कार्याणि इत्यपि बोधितम् ।