Shrikhand Mahadev Yatra : १४ त: २७ जुलाईपर्यन्तं भविष्यति श्रीखण्डमहादेवयात्रा, आनलाईन भविष्यति पञ्जीकरणम्
हिमसंस्कृतवार्ता: – कुल्लू:।
उत्तरभारतस्य कठिनतमासु धार्मिकयात्रासु अन्यतमा श्रीखण्डमहादेवयात्रा अस्मिन् समये १४ जुलैतः २७ जुलैपर्यन्तं भविष्यति। एतदर्थं गुरुवासरात् आनलाईनमाध्यमेन पञ्जीकरणप्रक्रिया आरभ्यते। अस्मिन् समये यात्रिकाणां यात्राकाले लघु-मार्गं ग्रहीतुं प्रतिबन्धः भविष्यति । उपायुक्तस्य तोरुलएसरवीशस्य अध्यक्षतायां यात्रायाः सफलसङ्गठनार्थं योजना निर्मिता।
बुधवासरे श्रीखण्डमहादेवयात्रा- न्यासस्य सभा समितिभवननिरमण्डे सम्पन्ना। सभाया: अध्यक्षता श्रीखंडमहादेवयात्रान्यासस्य अध्यक्ष: एवं उपायुक्त: कुल्लू: तोरुल एस रवीश: अकरोत् ।
उपायुक्तेन श्रीखण्डयात्रायाः विषये चायल, जुआगी, वितानस्य (तंबू/टैंट) व्यापारिभिः यात्रा न्यासस्य सदस्यैः, सह चर्चा कृता। अस्मिन् समये यात्रा जुलै-मासस्य १४ दिनाङ्कात् २७ दिनाङ्कपर्यन्तं भविष्यति इति सभायां निर्णयः कृतः । प्रशासनेन यात्रायाः सज्जता आरब्धा अस्ति। यात्रान्यासस्य अध्यक्षः अवदत् यत् अस्मिन् समये यात्रा पञ्चक्षेत्रेषु विभक्ता अस्ति। अस्मिन् सिंहागाड़, थाचडू, कुनशा, भीमद्वारे, यात्रायाः अन्तिम आधारशिबिरं पार्वतीबाग इत्यत्र प्रशासनेन आधारशिबिराणि स्थापितानि भविष्यन्ति। अस्मिन् क्षेत्रदण्डाधिकारिणः तै: सह प्रभारीपुलिसपदाधिकारिणः च नियुक्ताः भविष्यन्ति। एतेषु आधारशिबिरेषु चिकित्साकर्मचारिणः, राजस्वदलानि, उद्धारदलानि च नियोजितानि भविष्यन्ति। अस्मिन् वर्षे यात्रायां प्रथमवारं उद्धारदलस्य एसडीआरएफ-एककस्य यात्रायाः अन्तिमे आधारशिबिरे पार्वतीबागे नियुक्ता: भविष्यन्ति।
सः अवदत् यत् बहिः राज्येभ्यः आगच्छन्तः भक्तानां कृते श्रीखण्डयात्रायाः कृते ऑनलाइन-पञ्जीकरण-पटलं निर्मितम् अस्ति, यस्मिन् गुरुवासरात् आरभ्य ऑनलाइन-पञ्जीकरणार्थं पटलम् उद्घाट्यते। पार्वतीबागस्य उपरि ये शॉर्टकटमार्गाः गतवर्षे भक्तैः निर्मिताः आसन् ते अस्मिन् समये सुरक्षाकारणात् पिहिता: भविष्यन्ति। एतदतिरिक्तं मार्गाणां पुनर्स्थापनं कर्तुं अधिकारिभ्यः निर्देशाः दत्ताः सन्ति।