HPCM : पेखुबेला-सौर-ऊर्जा-परियोजनाया: लोकार्पणम्, प्रतिवर्षं ६.६१ कोटिमात्रकं विद्युतोत्पादनं भविष्यति
हिमसंस्कृतवार्ता: – ऊना।
मुख्यमंत्री सुखविंदरसिंहसुक्खु: गुरुवासरे ऊनाजनपदस्य पेखुबेलायां हिमाचलप्रदेश- ऊर्जा- निगम- सीमित- (हिमाचलप्रदेश- पावर- कारपोरेशन- लिमिटेड) द्वारा निर्मिताया: ३२ मेगावाटक्षमताया: पेखुबेला- सौर- ऊर्जा- परियोजनाया: लोकार्पणं कृतवान्। मुख्यमन्त्री २०२३ तमस्य वर्षस्य दिसम्बरमासस्य २ दिनाङ्के अस्याः सौरपरियोजनायाः आधारशिलाम् अस्थापयत्, प्रायः चतुर्मासाभ्यन्तरे अस्याः परियोजनायाः विद्युत्-उत्पादनं २०२४ तमस्य वर्षस्य एप्रिल-मासस्य १५ दिनाङ्के आरब्धम्। यस्य औपचारिकं उद्घाटनं गुरुवासरे मुख्यमन्त्रिणा कृतम्। पेखुबेलापरियोजना ४९ हेक्टेयर भूमिषु २२० कोटिरूप्यकाणां व्ययेन निर्मिता अस्ति। मुख्यमन्त्री उक्तवान् यत् अस्याः परियोजनायाः प्रतिवर्षं ६.६१ कोटि-मात्रकं विद्युतोत्पादनं भविष्यति तथा च राज्यसर्वकारस्य कृते प्रतिमात्रक २.९० रुप्यकाणां दरेन प्रतिवर्षं १९.१७ कोटिरूप्यकाणां राजस्वं प्राप्स्यते। अस्यां परियोजनायां ८२,६५६ सौरमापाङ्कनानि स्थापितानि सन्ति, परियोजनायाः उत्पन्नं विद्युत् रक्कड़- टाहलीवाल- संचरणरेखायाः माध्यमेन प्रसारितं भवति। पेखुबेला सौरपरियोजनया प्रतिवर्षं २५३२ टनकार्बन उत्सर्जनस्य न्यूनीकरणं भविष्यति। अस्या: परियोजनायाः निर्माणकार्यस्य कालखण्डे १९,२०० मनुष्यदिवसाः उत्पन्नाः इति सः अवदत्।
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः अवदत् यत् हिमाचलप्रदेशः देशस्य प्रथमं हरित ऊर्जाराज्यं भवितुं गच्छति, एतत् प्राप्तुं राज्यसर्वकारेण हिमाचलप्रदेश- विद्युत्निगमलिमिटेड इत्यस्मै ५०० मेगावाट सौरविद्युत्स्थापनस्य लक्ष्यं निर्धारितम् अस्ति। सः अवदत् यत् एतत् लक्ष्यं प्राप्तुं निगमेन ४७ मेगावाट् प्रत्येकं त्रयाणां सौरपरियोजनानां निर्माणकार्यं आवंटितम् अस्ति। तेषु एका सौर-परियोजना सम्पन्ना अस्ति, अन्ये द्वे सौर-प्रकल्पे निर्माणाधीने स्त:। मुख्यमन्त्री उक्तवान् यत् हिमाचलप्रदेशविद्युत्निगमलिमिटेडद्वारा ७२ मेगावाटस्य सप्तसौरपरियोजनानां निविदाः आमन्त्रिताः सन्ति तथा च ५४ मेगावाटप्रत्येकस्य चतुर्णां सौरविद्युत्परियोजनानां डीपीआर-निर्माणं क्रियते। सः अवदत् यत् ७७ मेगावाट प्रत्येकं १० सौरविद्युत्परियोजना: सन्ति येषां कृते पूर्वसाध्यताप्रतिवेदनं निर्मितं भवति। सः अवदत् यत् ५० मेगावाट् सौरविद्युत्परियोजनानां कृते एफसीए-अनुमतिः प्राप्यते, अन्ये २०० मेगावाट सौरविद्युत्परियोजना: अन्वेषणपदे सन्ति। एतासु परियोजनासु ऊनामण्डले स्थिताः १६० मेगावाट सौरपरियोजनाः, सोलनमण्डले स्थिताः ११० मेगावाट सौरपरियोजनाः, काङ्गड़ामण्डले स्थिताः १७० मेगावाटसौरपरियोजनाः, मण्डीमण्डले स्थिताः ५० मेगावाटसौरपरियोजनाः, बिलासपुरमण्डले स्थिताः १० मेगावाटसौरपरियोजनाः च सन्ति।