Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- राष्ट्रपतिः द्रौपदीमुर्मू अवदत् यत् देशस्य अथवा समाजस्य प्रगति: अपाङ्गजनानाम् प्रति संवेदनशीलतया कर्तुं शक्यते।
- प्रधानमंत्री नरेन्द्र-मोदी जम्मूकश्मीरस्य द्विदिवसीययात्रायां अस्ति, अद्य योगदिवसस्य कार्यक्रमे भागं ग्रहीष्यति।
- तमिलनाडुराज्यस्य कल्लाकुरिची जनपदेविषाक्त मद्यपानैः पंचत्रिंशत्-जनाः दिवंगताः नवाधिकैकशतं पडुचेर्याः कल्लाकुरिची-सेलम-जिपमर-क्षेत्राणां विभिन्नेषु चिकित्सालयेषु उपचाराधीनाः वर्तन्ते।
- पटना-उच्चन्यायालयेन बिहार-राज्ये प्रशासकीयवृत्ति-अवसरेभ्यः शैक्षणिक संस्थानेषु वंचित वर्गाणां, वंचित-वर्गाणां, अनुसूचित जाति अनुसूचितजनजात्योः कृते पञ्चाशत् प्रतिशतम् आरक्षणं वर्धित्वा पञ्चषष्ठीः प्रतिशतं कर्तुं बिहार-सर्वकारस्य निर्णयः निरस्तीकृतः।
- मुम्बईनगरे अपि च अस्य उपनगरीय क्षेत्रेषु ह्यः आरभ्य नैरन्तर्येणवृष्टिः समेधमाना वर्तते। राष्ट्रिय राजधान्यां दिल्ल्यां उष्णप्रकोपात् शैथिल्यस्य सम्भावना दृश्यते।
- देहल्याः उच्चन्यायालयेन मद्यनीतिप्रवञ्चनायाः प्रकरणे स्वनिर्णयः सुरक्षितः स्थापितः।
हिमाचलवार्ता:
- भाजपाप्रत्याशी के. एल. ठाकुर: गुरुवासरे नालागढ़े नामांकनपत्रं प्रस्तुतवान्। तदनन्तरं नालागढनगरे जनसभा अभवत्, यस्मिन् भाजपानेतारः काङ्ग्रेससर्वकारे आक्रमणं कृतवन्तः। मुख्यमन्त्रिणः एकाधिपत्यकारणात् एतत् उपनिर्वाचनं भवति इति विपक्षनेता जयरामठाकुरः अवदत्।
- मुख्यमंत्री सुखविंदरसिंहसुक्खु: गुरुवासरे ऊनाजनपदस्य पेखुबेलायां हिमाचलप्रदेश- ऊर्जा- निगम- सीमित- (हिमाचलप्रदेश- पावर- कारपोरेशन- लिमिटेड) द्वारा निर्मिताया: ३२ मेगावाटक्षमताया: पेखुबेला- सौर- ऊर्जा- परियोजनाया: लोकार्पणं कृतवान्। मुख्यमन्त्री उक्तवान् यत् अस्याः परियोजनायाः प्रतिवर्षं ६.६१ कोटि-मात्रकं विद्युतोत्पादनं भविष्यति तथा च राज्यसर्वकारस्य कृते प्रतिमात्रक २.९० रुप्यकाणां दरेन प्रतिवर्षं १९.१७ कोटिरूप्यकाणां राजस्वं प्राप्स्यते।
- हिमाचलविद्यालयीयशिक्षामण्डलस्य जालपुटं दुर्घटितं, धर्मशालानगरस्य शहीदस्मारकस्य वनेषु शनिवासरे अग्निप्रकोपात् आरभ्य बोर्डस्य जालपुटस्य सम्पर्क: निष्क्रियः अस्ति। एतादृशे सति शिक्षामण्डलम् अधुना टेट-अभ्यर्थीनां मोबाईल-सङ्ख्यायां एस. एम. एस. द्वारा अनुक्रमांकं प्रेषयति।
- हिमाचलप्रदेशस्य बिलासपुरन्यायालयस्य समीपे गोलीकाण्डस्य प्रकरणं प्रकाशितम् अस्ति। गोलिकायां एकः युवकः घातितः अस्ति। गोलीकाण्डस्य अनन्तरं पुलिसदलं तत्स्थानं प्राप्तम्। घातित: स्थानीयचिकित्सालयं नीत:, ततः अखिलभारतीय- आयुर्विज्ञासंस्थानं प्रति चिकित्सायै प्रेषित:।
- तिब्बतीनां सर्वोच्चधर्मगुरु: दलाई लामा शुक्रवासरे विदेशयात्रायै प्रस्थास्यति। दलाई लामा अमेरिकादेशं गच्छति। सः शुक्रवासरे प्रातः ७ वादने काङ्गड़ा-विमानस्थानकात् दिल्ली-नगरं प्रति प्रस्थास्यति । जूनमासस्य २२ दिनाङ्के दिल्लीतः अमेरिकादेशं प्रति प्रस्थास्यति। सः अमेरिकादेशे स्वास्थ्यपरीक्षां करिष्यति। एतदतिरिक्तं तस्य अन्ये कार्यक्रमाः अपि प्रस्ताविताः सन्ति।