HP Cabinet Decision : पुलिसारक्षकचयनप्रक्रियायै आयुसीमावर्धिता, जीविकाया: अवसरा: निसृता:
हिमसंस्कृतवार्ता:- शिमला
हिमाचलप्रदेशस्य मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः मासत्रयानन्तरं मंगलवासरे मन्त्रिमण्डलस्य गोष्ठीं स्वीकृतवान्। अस्मिन् सत्रे अनेके महत्त्वपूर्णाः निर्णयाः कृताः। पुलिस- आरक्षकपदेषु नियुक्तिविषये अपि महत्त्वपूर्णः निर्णयः कृतः।
मुख्यमन्त्रिण: सुखविन्दरसिंहसुक्खो: अध्यक्षतायां मन्त्रिमण्डलसभायां पुलिसविभागे १२२६ आरक्षकपदानां नियुक्त्यर्थम् उपस्थितानां अभ्यर्थीनां उच्चायुसीमा परिवर्तिता। अभ्यर्थीनाम् आयुः सीमा वर्धिता। अधुना १८तः २६ वर्षपर्यन्तम् आयुवर्गे सामान्य- अभ्यर्थिनः, १८तः २८वर्षपर्यन्तं आयुवर्गे अनुसूचितजाति/ जनजाति, ओबीसी, गोरखा, प्रतिष्ठितक्रीडकाः तथा २०तः २९ वर्षपर्यन्तम् आयुवर्गे गृहरक्षका: नियुक्त्यै अधिकृता: भविष्यन्ति। लघुबालानां कृते उत्तमशिक्षाप्रदानाय शिक्षाविभागे ६२९७ प्रारम्भिकबाल्यसेवाशिक्षाशिक्षकाणां नियुक्त्यर्थं अपि मन्त्रिमण्डलेन स्वीकृति: दत्ता। विभिन्नेषु सर्वकारीयविभागेषु ६६३० तः अधिकानि पदस्थानानि निर्माय पूरयितुं च निर्णयः कृतः।
स्वास्थ्य-एवं-परिवारकल्याणविभागे पदानि पूरयितुं निर्देशाः
सभायां स्वास्थ्यपरिवारकल्याणविभागे चिकित्सापदाधिकारिणां २०० पदानि निर्माय पूरयितुं निर्णयः कृतः। एतस्य अतिरिक्तं मन्त्रिमण्डलेन प्राध्यापकानाम् २२ पदानाम् अपि अनुमोदनं कृतम् अस्ति। एतेषु डॉ. यशवन्तसिंहपरमार- राजकीय- चिकित्सा- महाविद्यालये नाहने प्राध्यापकस्य त्रीणि पदानि, सहायकाचार्यस्य पदद्वयं, श्रीलालबहादुरशास्त्री- चिकित्सामहाविद्यालये प्राध्यापकपदद्वयं, सहाचार्यस्य एकं पदं च अन्तर्निहितमस्ति। स्वगृहसमीपस्थजनानां विशेषस्वास्थ्यसेवाप्रदानार्थं लालबहादुरशास्त्री- राजकीयचिकित्सा महाविद्यालये नेरचौके, पंडितजवाहरलालनेहरू- राजकीय- चिकित्सा- महाविद्यालये चम्बायां आचार्यस्य चत्वारि तथा सहाचार्यस्य सहायकाचार्यस्य च पञ्चैकं पदानि प्रदत्तानि।
टाण्डा चिकित्सामहाविद्यालये अपि पदानि पूरयिष्यन्ते
टाण्डा- चिकित्सामहाविद्यालये आपात्कालीन- चिकित्साधिकारीणाम् अष्टौ पदानि तथा च चम्बा- चिकित्सामहाविद्यालये सहायकाचार्यस्य पञ्चपदै: सह उपचारिकाणां (स्टाफ नर्स), शल्यचिकित्सासहायकस्य (ऑपरेशन थिएटर असिस्टेन्ट) तकनीकीज्ञस्य (टेक्नीशियन), बहूद्देश्यीयकार्यकर्तॄणां (मल्टी टास्क वर्कर) पदै: आवश्यकसहायककर्मचारिणां पदानि च पूरयितुं निर्णयः कृतः यथा एतयोः चिकित्सामहाविद्यालययोः आघातकेन्द्राणि कार्यरतानि भवितुम् अर्हन्ति।
प्रशासनिकन्यायाधिकरणे विभिन्नवर्गस्य पदानि पूरयिष्यन्ते
मन्त्रिमण्डलेन हिमाचलप्रदेशप्रशासनिकन्यायाधिकरणे विभिन्नवर्गाणां ८४ पदानां निर्माणं पूर्तिं च कर्तुं निर्णयः कृतः। तस्मिन् एव काले राज्ये नवनिर्मित- चतुष्पंक्तियोजनाक्षेत्रेषु उत्तमविनियमनार्थं नगरदेशनियोजनविभागे विभिन्नवर्गस्य १३ पदानि पूरयितुं सहमतिः दत्ता। युवासेवा-क्रीडाविभागे युवा- आयोजकानां चतुर्णां पदानाम् अनुमोदनं दत्तम्। हिमाचलप्रदेशस्य परिधिमध्ये राज्यसर्वकारस्य तथा राज्यसार्वजनिकक्षेत्रस्य उपक्रमेषु, बोर्डेषु, निगमेषु, स्थानीयनिकायेषु च समूह ग पदेषु प्रत्यक्षनियुक्तिम् आनेतुं निर्णयः कृतः। मन्त्रिमण्डलेन काङ्गड़ामण्डलस्य देहरायां पुलिसाधीक्षकस्य कार्यालयस्य अधीक्षण- अभियंता लोकनिर्माणविभागस्य कार्यालयस्य उद्घाटनस्य अनुमोदनं कृतम्, परन्तु आदर्श आचारसंहितायाः कार्यान्वयनस्य कारणेन एतयोः कार्यालययोः पश्चात् सूचना भविष्यति। ऊनामण्डलस्य हरोलीक्षेत्रे विद्युत्विभागस्य उद्घाटनस्य अपि मन्त्रिमण्डलेन अनुमोदनं कृतम्।
गृहवासव्यवस्थां (होमस्टे) अपि सुव्यवस्थितं कर्तुं परामर्शा:
मन्त्रिमण्डले ग्रामीणविकासः पंचायतीराजमन्त्री अनिरुद्धसिंहः, लोकनिर्माणमन्त्री विक्रमादित्यसिंहः, प्राविधिकशिक्षामन्त्री राजेश धर्माणी च सदस्यरूपेण गृहेवासस्य संचालनं सुव्यवस्थितं कर्तुं परामर्शं दातुं अधिकृता:। अपि च उद्योगमन्त्रिण: हर्षवर्धनचौहानस्य अध्यक्षतायां मन्त्रिमण्डलस्य उपसमित्याः सङ्घटनम् कृतम्। अनेन राज्ये पर्यटनस्य प्रवर्धनं भविष्यति।
अपि च उपमुख्यमन्त्री मुकेश अग्निहोत्री इत्यस्य अध्यक्षतायां सदस्याः कृषिमन्त्री चन्द्रकुमारः, उद्योगमन्त्री हर्षवर्धनचौहानः, प्राविधिकशिक्षामन्त्री राजेश: धर्माणी च इत्येतै: सह संसाधनसङ्ग्रहविषये अनुशंसाः कर्तुं मन्त्रिमण्डलस्य उपसमित्याः गठनाय अनुमोदनं दत्तम्। अस्मिन् काले मन्त्रिमण्डलेन राज्ये वनाग्निः, अनावृष्टिः, जलस्य अभावः, मानसूनस्य प्रगतेः च स्थितिः अपि समीक्षिता।