HP Bye Election : काङ्ग्रेसेन देहराविधानसभाक्षेत्रतः मुख्यमंत्रिण: पत्नी कमलेशठाकुर प्रत्याशीकृता
हिमसंस्कृतवार्ता: – शिमला।
काङ्ग्रेसेन हिमाचलस्य त्रिषु विधानसभासनेषु आयोज्य उपनिर्वाचनस्य अभ्यर्थिनः घोषिताः। काङ्ग्रेसेन नालागढासशतः हरदीपबावा तथा हमीरपुरतः डॉ. पुष्पेन्द्र वर्मा इत्येताभ्यां नामपत्रं दत्तं तत्रैव मुख्यमंत्रिण: सुखविन्दरसिंहसुक्खो: पत्न्यै कमलेशठाकुरायै देहरासनतः नामपत्रं दत्तम्। अवधेयं वर्तते यत् कमलेशठाकुरमहोदयाया: जन्म काङ्गड़ामण्डलस्य देहरा उपमण्डलस्य नलसूहाग्रामे १९७० तमस्य वर्षस्य अप्रैलमासस्य २ दिनाङ्के अभवत्। सा चण्डीगढस्य सर्वकारीमहाविद्यालयात् राजनीतिशास्त्रे एम.ए.उपाधिं प्राप्तवती, पीजीडीसीए-डिप्लोमा इत्यपि प्राप्तम्। नलसुहाक्षेत्रस्य राजकीय-उच्चविद्यालयात् दशम-स्तरीयं शिक्षां प्रागपुरस्य राजकीय-वरिष्ठ-माध्यमिक-विद्यालयात् च द्वादशीश्रेणी-शिक्षां प्राप्तवती।
तस्याः विवाहः मुख्यमन्त्रिणा सुखविन्दरसिंहसुक्खुना सह ११ जून १९९८ तमे वर्षे अभवत्, तस्याः समाजसेवाक्षेत्रे विशेषरुचिः अस्ति। कमलेशठाकुर विशेषतया महिलासशक्तिकरणार्थं निरन्तरं सक्रियताम् अवाप्तवती अस्ति। सा विगतविंशतिवर्षेभ्यः हिमाचलप्रदेशकाङ्ग्रेससमितेः सक्रियसदस्यरूपेण अपि कार्यं कुर्वती अस्ति, दलकार्यकर्तृभिः सह तस्याः उत्तमः सम्पर्कः अपि अस्ति। कमलेशठाकुर नादौन विधानसभानिर्वाचनक्षेत्रे निरन्तरं राजनैतिकरूपेण कार्यं कुर्वती अस्ति तथा च मुख्यमन्त्रिणा सुखविन्दरसिंहसुक्खुना सह क्षेत्रस्य समस्यानां समाधानार्थं प्रयत्नान् कुर्वती अस्ति।