Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- प्रधानमन्त्री नरेन्द्रमोदी मङ्गलवासरे सायंकाले प्रधानमन्त्री कृषकसम्माननिधि-अन्तर्गतं २० सहस्रकोटिरूप्यकाणां १७तमांशं विमोचितवान्।
- भारत-अमेरिका-देशयोः मध्ये महत्त्वपूर्णेषु उदयमानेषु च प्रौद्योगिकी-उपक्रमेषु चर्चाः अभवन्। सामरिकदृष्ट्या महत्त्वपूर्णक्षेत्रेषु प्रौद्योगिक्याः सहभागिताया: महत्त्वं सभायां ज्ञातम्।
- रेटिंग् एजेन्सी फिच् इत्यनेन वर्तमानवित्तीयवर्षस्य भारतस्य विकासस्य पूर्वानुमानं सप्तप्रतिशततः सप्तबिन्दुद्वयप्रतिशतं (७.२) यावत् वर्धितम्।
- भारतीय चलचित्रनिर्माता विनोदगणात्रा इत्यस्मै नेल्सन मण्डेला लाइफ टाइम अचीवमेण्ट् इति पुरस्कारः प्रदत्तः ।
- फिन्लैण्ड्देशे विश्व एथलेटिक्स महाद्वीपीय स्वर्णभ्रमणप्रतियोगितायां भालाक्षेपणस्य विश्वविजेता नीरजचोपड़ा भागं गृह्णीयात्।
हिमाचलवार्ता:
- हिमाचलप्रदेशस्य मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः मासत्रयानन्तरं मंगलवासरे मन्त्रिमण्डलस्य गोष्ठीं स्वीकृतवान्। अस्मिन् सत्रे अनेके महत्त्वपूर्णाः निर्णयाः कृताः। पुलिस- आरक्षकपदेषु नियुक्तिविषये अपि महत्त्वपूर्णः निर्णयः कृतः।
- मङ्गलवासरात् हिमाचल-उत्तराखण्डयो: द्वयोः पर्वतराज्ययोः मध्ये प्रत्यक्षविमानयानानि आरब्धानि। विमाननकम्पनी एलायन्स् एयर इत्यस्य ७२ आसनयुक्तं विमानं कुल्लुतः देहरादूनं प्रति प्रत्यक्षं विमानं कृतवान्। विशेषं तु एतत् यत् यदा विमानयानं प्रारब्धम् तदा कुल्लुनगरस्य भून्तरविमानस्थानके विमानस्य कृते जलतोपै: अभिविदनं कृतम्। भुन्तरविमानस्थानके विमानस्य उड्डयनात् पूर्वं उभयतः जलतोपैः स्वागतं कृतम्।
- अमेरिकीकाङ्ग्रेसप्रतिनिधिमण्डलं गतदिवसे धर्मशालां प्राप्तवान्। धर्मशालां प्राप्य प्रतिनिधिमण्डलेन निर्वासितस्य तिब्बतीसंसदस्य भ्रमणं कृतम्। एतत् प्रतिनिधिमण्डलं दलाईलामा इत्यनेन सह मिलति।
- राज्ये नूतनसर्वकारेण सह व्यवस्थायां परिवर्तनस्य कारणात् अधुना मुख्यमन्त्रीकार्यालये ‘व्यवस्थापरिवर्तनं’ भवति। राज्यसचिवालयस्य एलर्जली- भवने मुख्यमंत्री- कार्यालयाय नूतनरूपं दीयते। एतद् निगमशैल्या: भविष्यति। मुख्यमंत्रीकार्यालयेन सह नूतनं त्रितलीलीयं यानस्थगनस्थलम् (पार्किङ्ग) अपि निर्मितं भविष्यति। अस्य लाभः भविष्यति यत् मुख्यमन्त्रिणः समूह: साक्षात् पार्किङ्गस्थानं प्रति गमिष्यति।
- काङ्ग्रेसेन हिमाचलस्य त्रिषु विधानसभासनेषु आयोज्य उपनिर्वाचनस्य अभ्यर्थिनः घोषिताः। काङ्ग्रेसेन नालागढासशतः हरदीपबावा तथा हमीरपुरतः डॉ. पुष्पेन्द्र वर्मा इत्येताभ्यां नामपत्रं दत्तं तत्रैव मुख्यमंत्रिण: सुखविन्दरसिंहसुक्खो: पत्न्यै कमलेशठाकुरायै देहरासनतः नामपत्रं दत्तम्।