Himachal News : एनडीआरएफ इत्यनेन हिमाचलप्रदेशस्य अष्टमं उच्चतमं शिखरं मणिरङ्गपर्वतं विजितम्
हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।
राष्ट्रीय-आपदा-प्रबन्धनदलेन अर्थात् एनडीआरएफ-दलेन हिमाचलप्रदेशस्य अष्टमं उच्चतमं शिखरं मणिरङ्गपर्वतं विजितम् अस्ति । अभियानस्य कृते दलं द्वयोः भागयोः विभक्तम् आसीत् । प्रथमदलस्य एकादश पर्वतारोहिणः द्वितीयदलस्य पञ्च पर्वतारोहिणः च मणिरङ्गपर्वतस्य कठिनशिखरं प्राप्तुं सफलाः अभवन् । एनडीआरएफ-दलेन उक्तं यत् अन्येषु कठिनशिखरेषु अपि एतादृशानि कार्याणि भविष्यन्ति। दलस्य नेतृत्वं उपसमादेशक: (डिप्टी कमाण्डन्ट) नीतेश शर्मा इत्यनेन कृतम् । दलस्य मार्गदर्शनं महानिरीक्षक: गंभीरसिंह: चौहान: तथा समादेशक: (कमाण्डेन्ट) बलजिन्दरसिंह: अकरोत्।