Bengal Train Accident:कञ्चनजंगा-एक्सप्रेस् रेलयानेन सह मालवाहनस्य विघट्टनेन पञ्च जनाः मृताः
पश्चिमबङ्गदेशे सियालदह-नगरं गच्छन्तेन कञ्चनजंगा-एक्सप्रेस् रेलयानेन सह मालवाहनस्य विघट्टनेन पञ्च जनाः मृताः, अन्ये ३० जनाः घातिताः च अभवन् । प्रातः नव जलपाईगुड़ी रेलस्थानकस्य समीपे अयं दुर्घटना अभवत्। दुर्घटना स्थले राहत-उद्धार-कार्यक्रमाः प्रचलन्ति ।
रेलमार्गाधिकारिणां मते मालवाहनं संकेतात् परं गत्वा कञ्चनजङ्गा एक्स्प्रेस् इत्यस्य पृष्ठभागेन सह विघट्टितः अभवत् । यानस्य पृष्ठभागे द्वौ पार्सल्-वैन्, गार्ड-कक्षः च संलग्नौ आस्ताम् । राष्ट्रीयापदाप्रतिक्रियाबलस्य दलं १५ एम्बुलेन्सयानानि च दुर्घटनास्थलं प्राप्तवन्तः। रेलमार्गेण जिज्ञासार्थं विभिन्नस्थानेषु सहायताप्रकोष्ठाः निर्मिताः सन्ति ।
कञ्चनजङ्गा एक्स्प्रेस् विषये सूचनां प्राप्तुं सीलडाह-स्थानकस्य सहायताप्रकोष्ठ-सङ्ख्याः सन्ति – ०३३-२३५०८७९४, ०३३-२३८३३३२६ ।
पूर्वोत्तर रेलविभागस्य आपत्कालीनाः सेवाः सन्ति – 8170034235, किशनगंज दूरभाषः 7542028020 तथा 06456-226795, दलखोला दूरभाषः – 8170034228, बरसोई दूरभाषः – 03513-265690/035 अस्ति।