KSDSU : कर्मचारिणां संस्कृतप्रशिक्षणं सप्तमे दिने अपि अनुवर्तमानम्
प्रतिदिनम् कुलपतिः कर्मचारिभि: सह उपविष्ट: भवति
हिमसंस्कृतवार्ता: – राघवनाथझा, दरभङ्गा।
संस्कृत विश्वविद्यालयस्य कर्मिणः अल्पकालेनैव सरलतया संस्कृतं वक्तुं समर्थाः भविष्यन्ति। मुख्यालयस्य दरबार हॉलमध्ये तेभ्यः प्रतिदिनं द्वौ घण्टौ संस्कृते प्रशिक्षणं दीयते। गुरुवासरे अपि सप्तमे दिने प्रशिक्षणं अनुवर्तितम्। कर्मचारिणः इदानीं एकमेकं संस्कृतेन किंचित्-किंचित् वदन्ति स्म। अद्यत्वे प्रशिक्षणे तेषां अग्रतः, पुरतः, पृष्ठतः, इतः, ततः, यत्र, तत्र इत्यादीनां पाठ्य बिन्दूनां अभ्यासः कृतः।
प्रवक्त्रा निशिकान्तेन उक्तं यत् अस्य प्रशिक्षणकार्यक्रमस्य कुलपति प्रोफेसर लक्ष्मीनिवासः पाण्डेय महोदयः अतिगम्भीरतया साकं व्यवहारं कुर्वन्ति। तस्य कारणं यत् स्वीयं व्यस्तत्वं अपि अवहाय सः प्रतिदिनं प्रायः द्वौ घण्टौ यावत् प्रशिक्षणकाले कर्मचारीणां मध्ये उपविष्टः भवति स्म तथा आवश्यककाले प्रशिक्षकान् कर्मिणश्च परिष्करणीयां सलाहाम् अपि ददाति स्म। तत्र प्रशिक्षणप्रमुखः बिहारदेवनिरञ्जनः दीक्षितः अद्य कर्मचारीणां सरलसुगम्येन प्रकारेण संस्कृतं वक्तुं शिक्षयामास। सः तेषां बहूनि पौराणिकाः आधुनिकाः च उपाया अवेदयत् येन आत्मसात्कृत्य कर्मचारीणः मानसिकभारं विना सरलतया संस्कृतं वदन्ति स्म।
उल्लेखनीयं यत् डॉ. रामसेवक झस्य संयोजकत्वे आयोजिते अस्मिन् कार्यक्रमे कर्मचारीणां सह डीन डॉ. शिवलोचन झः, सीसीडीसी डॉ. दिनेश झः, शिक्षाशास्त्रनिदेशकः डॉ. घनश्याम मिश्रः, कुलानुशासकः डॉ. पुरेन्द्र वारिकः, उपकुलसचिवः डॉ. सुनील कुमार झः, विकासपदाधिकारी डॉ. पवनकुमार झः सह अन्ये पदाधिकारीणः अपि उपस्थिताः भवन्ति स्म।