Bulk Drug Park: प्रचुरौषधवाटिकायां निजीसहयोगिन: न स्वीक्रियन्ते
हिमसंस्कृतवार्ता: – शिमला।
मुख्यमन्त्रिण: सुखविन्दरसिंहसुक्खो: अध्यक्षतायां ऊनामण्डलस्य हरोली विधानसभाक्षेत्रे प्रचुरौषधवाटिकाया: (बल्क ड्रग पार्क) स्थापनायाः प्रगतेः समीक्षायै उच्चस्तरीयसभा आयोजिता। मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारः अस्यां परियोजनायां रणनीतिकसहयोगी भविष्यति तथा च भारतसर्वकारस्य साहाय्यस्य अतिरिक्तं तस्य कार्यस्य समये एव सम्पादनार्थं अतिरिक्तनिधिः अपि उपलभ्यते। अस्य अर्थः अस्ति यत् इदानीं राज्यसर्वकारः अस्यां परियोजनायां निजीसहभागिनं न गृह्णीयात्। परियोजनायाः डीपीआर- मध्ये रणनीतिकसहयोगिन: व्यवस्था आसीत्। सः अवदत् यत् १९२३ कोटिरूप्यकाणां अनुमानितव्यययुक्ता एषा परियोजना ५७० हेक्टेयर भूमौ स्थापिता भविष्यति।
अस्याः परियोजनायाः परिचालनव्ययः १० वर्षाणि यावत् राज्यसर्वकारः वहति इति अपि सभायां निर्णयः अभवत्। सुक्खुना उक्तं यत् बल्क ड्रग पार्क इत्यस्मिन् पञ्च एमएलडी क्षमतायुक्तः सामुदायिक-अपवाह- उपचारसंयन्त्रं, (एफ्लुएंट ट्रीटमेंट प्लांट) ठोस- अपशिष्टप्रबन्धनसंयन्त्रम्, झञ्झानीरनिकासीजालं, साधारणविलयकभण्डारणं, पुनर्प्राप्तिः आसवनसुविधा, धारा उत्पादनसंयंत्रम्, आधुनिकप्रयोगशालापरीक्षणकेन्द्रं, आपत्कालीनप्रतिक्रियाकेन्द्रं, महत्त्वपूर्णं तत्र भविष्यति। परिचालनलेखाकेन्द्रस्य उत्कृष्टताकेन्द्रस्य च सुविधा भविष्यति। एतदतिरिक्तं पादचालनमार्गः, भोजनालयः, अग्निशामकस्थानकं, प्रशासनिकखण्डम् इत्यादय: आधारभूतसंरचना: निर्मिताः भविष्यन्ति, स्थलविकासकार्यमपि भविष्यति। सः उद्योगविभागाय निविदाप्रक्रियायाः त्वरिततां, किमपि प्रकारस्य बाधां दूरीकर्तुं, परियोजनां स्थले आनेतुं सर्वा: औपचारिकता: समये एव सम्पन्नं कर्तुं निर्देशं दत्तवान्।
मुख्यमन्त्रिण: कथनम् किम्?
मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारः प्रचुरौषधवाटिकां (बल्क ड्रग पार्कं) शीघ्रमेव सम्पन्नं कर्तुं प्रतिबद्धः अस्ति, यतः एतत् राज्यस्य महत्त्वपूर्णासु परियोजनासु अन्यतमम् अस्ति। इदं बल्क ड्रग पार्क राजस्वसृजनार्थं सहायकं भविष्यति, युनां कृते महत्त्वपूर्णान् रोजगारस्य अवसरान् च प्रदास्यति। उपमुख्यमन्त्री मुकेश अग्निहोत्री, उद्योगमन्त्री हर्षवर्धन चौहान, शिक्षामन्त्री रोहितठाकुरः अपि अस्याः परियोजनायाः कार्यान्वयनसम्बद्धान् बहुमूल्यान् परामर्शान् दत्तवन्तः।