Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- प्रधानमन्त्री नरेन्द्रमोदी जी सप्त देशानां शिखरसम्मेलने भागं ग्रहणाय इटलीदेशं प्रति प्रस्थित:।
- भारतीयजनतापार्टीति-दलस्य वरिष्ठनेता पेमाखण्डुः अनवरतं तृतीयवारं अरुणाचल प्रदेशस्य मुख्यमन्त्रीपदस्य शपथं गृहीतवान्।
- रक्षामंत्री राजनाथसिंह: उक्तवान् यत् भारतेन इदानी एकविंशतिः सहस्र-रूप्यकाधिक- रक्षोपकरणानां निर्यातो विहितः ।
- NEET-UG परीक्षायां संलग्नानां सर्वेषां त्रिषष्ठयाधिक-पञ्चशतोत्तर-एकसहसाभ्यर्थीनां पुनः परीक्षणम् अस्य मासस्य त्रयोविंशतिः दिनाङ्के भविष्यति।
- विदेश-राज्य-मन्त्री कीर्ति-वर्धन-सिंहः कुवैत-नगरस्य मनगाफ-क्षेत्रं प्राप्तवान् । तस्य यात्रायाः उद्देश्यं दुर्घटनायां मृताकानां पार्थिव शरीराणि प्रत्यानयन-विषये स्थानीयाधिकारिभिः सह समन्वयं स्थापनं वर्तते।
हिमाचलवार्ता:
- हिमाचलप्रदेशस्य बद्दी-बरोटीवाला औद्योगिकक्षेत्रयो: भूजले विषाक्ततत्त्वानि सन्ति ये कर्करोगं जनयन्ति। भारतीय-सूचना-प्रौद्योगिकीसंस्थानम् (IIT) मण्डी- जम्मू- इत्यनयोः शोधकर्तृभिः स्वस्य अध्ययने एतत् प्रकाशितम् अस्ति।
- उच्चशिक्षाविभागेन २०२४-२०२५ वित्तीयवर्षस्य शैक्षणिकसत्रस्य २०२३-२०२४ इत्यस्य आधारेण योग्यताप्रोत्साहनयोजनायाः अन्तर्गतं २३ जून २०२४ पर्यन्तं योग्यछात्राणां आवेदनपत्राणि आमन्त्रिताणि सन्ति।अस्यान्तर्गतं विविधानां प्रतियोगीपरीक्षाणाम् अनुशिक्षणाय एकलक्षरूप्यकाणां वित्तीयसहायता प्रदत्ता भविष्यति।
- भाजपादलस्य प्रदेशाध्यक्षेण डॉ. राजीवबिन्दलेन १० जुलाई २०२४ दिनांके आयोज्यमानाय विधानसभा- उपनिर्वाचनाय प्रभारिण:, सहप्रभारिण:, संयोजका:, सहसंयोजका: च नियुक्ता: सन्ति।
- हिमाचलप्रदेशकाङ्ग्रेससमितेः महासचिवः रजनीशकिमटा इत्यनेन उक्तं यत् आगामिविधानसभा उपनिर्वाचनार्थं काङ्ग्रेसपक्षः पूर्णतया सज्जः अस्ति, एकतापूर्वकं धनशक्तेः सम्मुखीकरणं करिष्यति। सः अवदत् यत् काङ्ग्रेसपक्षेण देहराविधानसभासनस्य उपनिर्वाचनार्थं कृषिमन्त्री चौधरीचन्द्रकुमार:, नालागढविधानसभासनार्थं शिक्षामन्त्री रोहितठाकुर:, हमीरपुरविधानसभासनार्थं तकनीकीशिक्षामन्त्री राजेशधर्माणी च नियुक्ता: सन्ति।
- मुख्यमन्त्रिण: सुखविन्दरसिंहसुक्खो: हस्तक्षेपानन्तरं आयुषमन्त्री यादविन्दरगोमा, नगरविकासमन्त्री राजेश: धर्माणी च सर्वकारीयावासौ प्राप्णवन्तौ। विधानसभाध्यक्ष: कुलदीपसिंहपठानिया स्वनिवासं गमिष्यति। तस्य भवनं यादवेन्द्रगोमावर्याय दत्तम् अस्ति। पूर्वं मुख्यमन्त्रिण: सुखविन्दरसिंहसुक्खो: मुख्यसचिवस्य आवास: राजेश धर्माणी इत्यस्मै दत्तम् अस्ति।
The Best News Paper in Sanskrit.
Let me know is you can send hard copy.
I can subscribe.
Yes we can , please DM me on WhatsApp 9418927271