Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- तेलुगु-देशम् पार्टीति दलस्य प्रमुखः नाराचन्द्रबाबू नायडुः अद्य कृष्णा मण्डलस्य केसरपल्ली इत्यत्र आंध्र प्रदेशस्य मुख्यमंत्रित्वेन शपथ ग्रहणं कृतवान्।
- प्रधानमंत्री नरेंद्रमोदी जी-सप्त शिखरसम्मेलने सम्मिलितुं गुरुवासरे इटलीं प्रयास्यति ।
- प्रधानमन्त्रीनरेन्द्रमोदी विदेश मंत्री सुब्रह्मण्यम-जयशंकरः च कुवैत नगरे दुरापन्ने भीषणे आग्निकाण्डे महद्-दुःखं व्यक्तमकुरुताम्।
- अष्टादशतम्याः लोकसभायाः प्रथम-सत्रम् अस्य मासस्य चतुर्विशति-दिनाङ्कात् समारप्स्यते।
हिमाचलवार्ता:
- महिलाभ्य: १५०० रुप्यकाणि दातुं सज्जता, २३ कोटिरुप्यकाणि मुक्तानि। ‘इन्दिरागांधी- प्रियभगिनी- योजनाया:’ सञ्चिका वित्तविभागात् निर्गता।
- लाहौल- स्पीतिविधानसभाक्षेत्रस्य नवनिर्वाचितविधायिका अनुराधा राणा तथा कुटलैहड़विधानसभाक्षेत्रस्य नवनिर्वाचितविधायक: विवेकशर्मा च बुधवासरे प्रतिनिधिमण्डलेन सह मुख्यमन्त्रिणा सुखविन्दरसिंहसुक्खुना सह मिलिता:। मुख्यमन्त्री विधानसभा उपनिर्वाचने विजयं प्राप्तुं तेभ्य: शुभकामना: अददत्। मुख्यमन्त्री तेभ्यः आश्वासनं दत्तवान् यत् राज्यसर्वकारः तेषां विधानसभाक्षेत्राणां विकासाय सर्वसम्भवं साहाय्यं करिष्यति।
- मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् २०२४-२५ वित्तवर्षे सुख- आश्रययोजनायां १०६१ अनाथबालानां कृते सामाजिकसुरक्षारूपेण १.९९ कोटिरूप्यकाणि, ३,१२१ लाभार्थिभ्यः कोशधनरूपेण प्रतिमासं ४,००० रुप्यकाणि, उत्सवृत्तिरूपेण १६.८९ कोटिरूप्यकाणि च शीघ्रमेव प्रदास्यते।
- हिमाचलप्रदेशविधानसभाया: उपनिर्वाचनेषु निर्वाचितानां षट् विधायकानां शपथग्रहणम् अभवत्। विधानसभाध्यक्ष: कुलदीपसिंह पठानिया बुधवासरे राज्यविधानसभापरिसरे पदस्य गोपनीयताया: च शपथं दत्तवान्।
- भाजपाया: नवनियुक्तयो: विधायकयो: सुधीरशर्मण:, इन्द्रदत्तलखनपालस्य च विधानसभां प्राप्ते सति नेताविपक्ष: जयरामठाकुर: तथा सर्वै: विधायकदलै: स्वागतम् विहितम्।
- भाजपाया: विधायक: सुधीर शर्मा उक्तवान् यत् लोकसभानिर्वाचने काङ्ग्रेससर्वकारः दुर्गतिम् अवाप्तवान्, धर्मशालायां वयं स्वयमेव काङ्ग्रेसपक्षं पराजितवन्तः।इन्द्रदत्तलखनपालः अवदत् यत् राज्ये काङ्ग्रेससर्वकारः केवलं प्रतिशोधस्य भावनया सह कार्यं कृतवान् यत् राज्यस्य हिताय नास्ति।
क्रीडावार्ता
- आईसीसी टी-विंशति-क्रिकेट-विश्व-चपके अद्य सायं भारतीयदलं अमेरिकादलं सम्मुखीकरिष्यति ।