Bihar News : राजभवने योगस्पर्धायै प्रतिभागिनः चयनिताः। विंशतितमे जूनमासे सर्वे गच्छन्ति पटना।
हिमसंस्कृतवार्ता:- राघवनाथ: झा, दरभंगा
विंशतितमे जूनमासे राजभवने पटना अन्तर्विश्वविद्यालय- योगस्पर्धा आयोजिता अस्ति। अस्मिन्नेव स्पर्धायां भागं ग्रहीतुं संस्कृत- विश्वविद्यालयस्य शिक्षाशास्त्रविभागे बुधवासरे चयनस्पर्धा आयोजिता या आसीत्। यस्मिन् विविध- विद्यालयेभ्यः आगतानां प्रतिभागिनां मध्ये प्रायः षट् प्रतिभागिनः चयनिताः अभवन्।
एतद्विषये विज्ञापनं दत्त्वा पी. आर. ओ. निशिकान्तः उक्तवान् यत् 05 जून दिनाङ्के एव राज्यपालस्य प्रमुखसचिवः राजभवनपटना-स्थे विंशतितमे जूनमासे प्रस्ताविते अन्तर्विश्वविद्यालय-योगस्पर्धायां भागं ग्रहीतुं संस्कृतविश्वविद्यालयं पत्रं लिखितवान् आसीत्। अत्र अपि वदामः यत् पटना-आयोजितायां योगस्पर्धायां प्रथम, द्वितीय, तृतीय स्थानं प्राप्नुवतां प्रतिभागिनः 21 जून दिनाङ्के अन्तरराष्ट्रीय- योग- दिवसस्य अवसरं प्राप्य माननीयं कुलाधिपतिना सम्मानिता भविष्यन्ति। अत्र, योगचयनसमितेः अध्यक्षः डॉ. शिवलोचनझा, संयोजकः डॉ. सुधीरकुमारझा, डॉ. त्रिलोकझा, डॉ वीरसनातनपूर्णेन्दुरायः, गोपालकृष्णमिश्रः, डॉ. मुकेशप्रसादनिरालः, पवनसहनी इत्येतेषाम् उपस्थितौ प्रतिभागिनः चयनिताः अभवन्। चयनितेषु प्रतिभागिषु श्रुतिसिंह:, रोहितकुमारझः, आयुषकुमारझा, बाबुलराजः, नितीशकुमारठाकुरः समेत दशजनाः चयनिताः प्रशिक्षणार्थम् अभवन्। प्रशिक्षकाः इति रूपेण गोपालकृष्णमिश्रः, शशिभूषणरायः, शशिरञ्जनः च आसन्। अनेन अवसरः डॉ. दिनेशझा, डॉ घनश्याममिश्रः, डॉ. रामसेवकझः, डॉ. महानन्दठाकुरः एवं शिक्षाशास्त्रविभागस्य कर्मिणः उपस्थिताः आसन्। चयनस्पर्धायाम् अनेके विद्यालयीया: छात्रच्छात्राः च भागं गृहीतवन्तः।