२४जूनतःआरभ्यते १८ तमायाः लोकसभायाः प्रथमसत्रम्
१८ तमायाः लोकसभायाः प्रथमसत्रम् अस्य मासस्य २४ दिनाङ्कात् आरभ्यते। अस्मिन् सत्रे नवनिर्वाचितसदस्यानां शपथग्रहणं, अध्यक्षस्य निर्वाचनं, राष्ट्रपतिसम्बोधनं, चर्चा च भविष्यति। यत्र राज्यसभायाः २६४तमं अधिवेशनमपि अस्मिन् मासे २७ दिनाङ्के आरभ्यते। आगामिमासस्य तृतीये दिने आगामि संसदस्य सत्रस्य समाप्तिः भविष्यति।
केन्द्रीयसंसदीयकार्यमन्त्री किरेन् रिजिजुः उक्तवान् यत् देशस्य जनाः निर्णयं कृतवन्तः। अधुना देशस्य सेवायै कार्यं कर्तुं अस्माकं कर्तव्यम् अस्ति। श्री रिजिजुः उक्तवान् यत् संसदः १४० कोटिभारतीयानाम् आकांक्षाणां पूर्तये चर्चां कर्तुं आदर्शमञ्चः अस्ति।
२४जूनतःआरभ्यते १८ तमायाः लोकसभायाः प्रथमसत्रम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment