लेफ्टिनेंट-जनरल उपेन्द्रद्विवेदी भारतीय सेनायाः नवप्रमुखः भविष्यति
हिमसंस्कृतवार्ताः १२ जून। लेफ्टिनेंट-जनरल उपेन्द्रद्विवेदी भारतीय सेनायाः नवप्रमुखः भविष्यति । सः ३० जून दिनाङ्के जनरल् मनोजपाण्डे इत्यस्य स्थाने स्थास्यति। उपेन्द्रद्विवेदी जम्मू-कश्मीरे चिरकालात् सेवां कृतवान् अस्ति। अस्मिन् वर्षे फेब्रुवरी १९ दिनाङ्के उपेन्द्र द्विवेदी सेनादलस्य उपप्रमुखत्वेन कार्यभारं स्वीकृतवान् । पूर्वं द्विवेदी २०२२-२०२४ यावत् उत्तरकमाण्डस्य जनरल् आफिसर कमाण्डिंग इन चीफ इति पदं धारयति स्म ।
उपेन्द्रद्विवेदी मध्यप्रदेशस्य रीवा-नगरस्य सैनिकविद्यालयस्य छात्रः अस्ति । ३९ वर्षाणां कालखण्डे सः देशे सर्वत्र समस्यापूर्णवातावरणेषु कमाण्डिंग् इति पदं कृतवान् । सः काश्मीर-उपत्यकायां राजस्थान-नगरे अपि सेनासमूहस्य नेतृत्वं कृतवान् । पूर्वोत्तरे आतङ्कवादविरोधी वातावरणे सः असम राइफल्स् इत्यस्य सेक्टर कमाण्डरः महानिरीक्षकः च अभवत् ।
लेफ्टिनेंट-जनरल उपेन्द्रद्विवेदी भारतीय सेनायाः नवप्रमुखः भविष्यति
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment