SPU Mandi : विकसितभारतस्य दिशि युनां भवेद् अग्रणी भूमिका- प्रो. ललितकुमार: अवस्थी
हिमसंस्कृतवार्ता:- डॉ. राकेश शर्मा, लघ्वीकाशी मण्डी।
सरदार- पटेल- विश्वविद्यालयस्य इतिहासविभागद्वारा क्रांतिकारी रामप्रसादबिस्मिलजयंतीसमारोहस्य आयोजनं कृत। कार्यक्रमे आर्थिकरूपेण क्षीणछात्रेभ्य: शिक्षा- उत्थान- प्रोत्साहन- छात्रवृत्तिरपि आबंटिता। कार्यक्रमस्य मुख्यातिथि: प्रो. ललितकुमार अवस्थी, कुलपति: सरदार- पटेल- विश्वविद्यालय: मंडी आसीत्। कार्यक्रमस्य अध्यक्षता प्रो. अनुपमासिंह:, प्रति कुलपतिवर्यया कृता। विशिष्टातिथिरूपेण आचार्य: राजेशकुमारशर्मा अधिष्ठाता, महाविद्यालय- विकास- परिषद् एवं अभियन्ता सुनीलवर्मा, परीक्षानियंत्रक:, कुल सचिवश्च (अतिरिक्त कार्यभार:) आस्ताम्। मातु: सरस्वत्या: चित्रस्य सम्मुखं ज्योति प्रज्वाल्य, क्रांतिकारी- रामप्रसादबिस्मिलस्य चित्रे पुष्पांजलि- अर्पणेन कार्यक्रमस्य शुभारंभ: अभवत्। कार्यक्रमसंयोजक: डॉ. राकेशकुमारशर्मा मुख्यातिथे:, अन्येषां अतिथीनां च स्वागतं, परिचयं च आकारयत्। सः कार्यक्रमस्य उद्देश्यान् सविस्तरम् अवबोधयत्। अवसरेऽस्मिन् मुख्यातिथि: प्रो. ललितकुमार अवस्थी क्रांतिकारी- रामप्रसादबिस्मिलं श्रद्धासुमनानि समर्पय अवदत् यत् तस्य जीवनात् अस्माभि: प्रेरणा स्वीकर्तव्या। सः अल्पवयसि एव स्वसर्वस्वं भारतमातु: चरणेषु समर्पितवान्। तेनोक्तं यत् विकसितभारतस्य निर्माणे युवानाम् अग्रणी भूमिका भविष्यति। अतः युवानः स्वलक्ष्यस्य निर्धारणं कृत्वा अग्रेसरेयु:। तेन योजितं यत् भारतम् एक: युवादेश: अस्ति अतः देशस्य विकास युवानः स्वकीयभूमिकां सुनिश्चितां कुर्यु:। सः उक्तवान् यत् ते हिमाचलप्रदेशस्य क्रांतिकारिणां विषये अधिकाधिकं ज्ञानम् समर्जय तत् समाजपर्यन्तम् आनेयु:। कार्यक्रमस्य अध्यक्षा आचार्या अनुपमा सिंह उक्तवती यत् क्रांतिकारी रामप्रसादबिस्मिल: तेषु क्रांतिकारिषु आसन् ये अल्पवयसि एव देशाय सर्वस्वं समर्पितवन्तः। अतः तेषां जीवनात् अस्माभि प्रेरणा ग्रहीतव्या। विशिष्टातिथि: अभियन्ता सुनील वर्मा अवदत् यत् क्रांतिकारी रामप्रसादबिस्मिलस्य जीवनं संघर्षमयम् आसीत्। सः क्रांतिकारी- आंदोलनं नवदिशा दत्तवान्। कार्यक्रमे मुख्यातिथि आचार्य: ललितकुमार अवस्थी आर्थिकरूपेण क्षीणेभ्य: द्वादश छात्रेभ्यो: पञ्च- पञ्चसहस्ररूप्यकाणां शिक्षा- उत्थान- प्रोत्साहन- छात्रवृत्ति आबंटिताम् अकरोत्। मंचसंचालनं छात्रया नीतिकया कृतम्। विभागीयविवरणं छात्रा गीता कुमारी, गतिविधिविवरणं च शुभम अकरोत्। क्रान्तिकारी रामप्रसादबिस्मिलस्य जीवने शोधार्थी विनोदकुमार: स्ववक्तव्यं दत्तवान्। आचार्य: राजेशकुमारशर्मा धन्यवादप्रस्तावं प्रस्तुतवान्। कार्यक्रमे डॉ. गंगाराम राजी, कृष्णचंद्र महादेविया, अनिल शर्मा, नरेश मल्होत्रा, मुरारी शर्मा, कन्हैयालाल सैनी, अजय सहगल:, डॉ. लखबीरसिंह: अधिष्ठाता, शोध, डॉ. पवनचांद अधिष्ठाता, छात्रकल्याणम्, डॉ सुनील ठाकुर: अधिष्ठाता, योजना एवं विकास:, डॉ करण गुप्ता विभागाध्यक्ष:, प्रबंधनविभाग: डॉ. जगदीप वर्मा, डॉ चेतन चौहान:, डॉ रामपाल:, विकेश कुमार:, राजेशशर्मा, कृष्ण कुमारसहितं समाजस्य प्रबुद्धजना:, इतिहाससमिते:, इतिहासविभागस्य समस्तविद्यार्थिनः उपस्थिता: आसन्।