SMC Election 2024 : रश्मि राजकीयमाध्यमिकविद्यालयस्य डडौरस्य एसएमसी-अध्यक्षा जाता
हिमसंस्कृतवार्ता: – लघ्वीकाशी मण्डी।
समग्रशिक्षाभियानस्य हिमाचलप्रदेशस्य परियोजनानिदेशकस्य निर्देशानुसारं राजकीय-माध्यमिक-विद्यालयस्य डडौरस्य विद्यालयप्रबन्धनसमित्याः (एसएमसी) गोष्ठी ११-०६-२०२४ दिनाङ्के राजकीयमाध्यमिकविद्यालये डडौरे श्रीआलमरामस्य, पूर्वपार्षद:, नगरपरिषद: अध्यक्षतायां सम्पन्ना। यस्मिन् पूर्वतनकार्याणां समीक्षा कृता। अपि च अग्रिमत्रिवर्षेभ्यः विद्यालयप्रबन्धनसमित्या: सङ्घटनम् कृतम्। यस्मिन् सर्वसम्मत्या श्रीमती रश्मि अध्यक्षा, श्री परमानन्द:, श्रीमती आशा देवी, श्रीमती रीता देवी, श्रीमती कमला देवी सर्वसम्मत्या कार्यकारिण्या: सदस्यत्वेन निर्वाचिता:। विद्यालयस्य प्रभारिणा योगेशशर्मणा नवनिर्मिताया: कार्यसमित्या: अभिनन्दनं कृतम्। अपि च विद्यालयप्रबन्धन-समित्या: कर्तव्या: बोधिता:।