Sanskrit University : प्रशिक्षार्थिनः संस्कृतभाषायां स्वप्रतिभायाः प्रदर्शनं कृतवन्तः
संस्कृतभाषायां सस्यादीनां क्रय-विक्रय-मूल्यानां चर्चां च अकुर्वन्
हिमसंस्कृतवार्ता- राघवनाथ झा, दरभङ्गा।
दरभङ्गा संस्कृतविश्वविद्यालये प्रवर्तमाने आवासीयसंस्कृतप्रशिक्षणवर्गे प्रशिक्षार्थिनः अद्भुतं प्रतिभाप्रदर्शनं कृतवन्तः। प्रशिक्षणस्य पञ्चमे दिने सायङ्काले षण्मासात् सप्तवादनपर्यन्तं छात्रेभ्यः भाषाक्रीडायां एकस्मात् श्वासात् संख्याकथनं शिक्षितम्। तत्क्रमणुसारं सस्य-सब्जीनां क्रय-विक्रय-मूल्यानां अभिनयः संस्कृतमाध्यमेन कृतः। क्रेता-विक्रेतारूपेण प्रशिक्षार्थिनः दीर्घसमयं यावत् संस्कृतभाषायां संवादं अकुर्वन्।
उक्तां जानकारीं प्रददतो निशिकान्तवर्येण उक्तं यत् सोमवासरे बौद्धिकसत्रे ललितनारायणमिथिलाविश्वविद्यालयस्य सेवानिवृत्तसंस्कृतप्राध्यापकः डॉ. जयशङ्करझावर्यः संस्कृतस्य प्रासङ्गिकताविषये विस्तृतं चर्चां कृतवान्। सः प्रशिक्षार्थिभ्यः संस्कृतभाषायां भाषणस्य अनेकानि तन्त्राणि अददात्।
अपरत्र दरबारमण्डपे विश्वविद्यालयस्य कर्मचारिणां कृते सञ्चालिते संस्कृतसम्भाषणवर्गे चतुर्थदिने विभक्तिः, दिनचर्या, संस्कृतभाषायां समयकथनं, संस्कृतकथा च संख्या-कथनं च शिक्षितम्। अस्य वर्गस्य विशेषता आसीत् यत् स्वयं कुलपतिः प्रो. लक्ष्मीनिवासपाण्डेयः कर्मचारिभिः सह दर्शकदीर्घायां उपविश्य प्रशिक्षणस्य अवलोकनं कृतवान्। आवश्यकतानुसारं प्रशिक्षकान् कर्मचारिणश्च अपेक्षितनिर्देशान् अददात्। कार्यक्रमस्य संयोजकः डॉ. रामसेवकझावर्यः उक्तवान् यत् प्रशिक्षणवर्गे संस्कृतसम्भाषणस्य अतिरिक्तं उत्तमजीवनयापनकला अपि शिक्ष्यते।
संस्कृत को सबसे लोकप्रिय भाषा आसानी से बोलने वाली भाषा में कैसे बदल सकते हैं