HPCM : २५ वोल्वो बसयानानि, ५० टेम्पो-ट्रैवलर यानानि च क्रेष्यति सर्वकारः
हिमसंस्कृतवार्ता: – शिमला।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः सोमवासरे हिमाचलपथपरिवहननिगमस्य (एचआरटीसी) सभायाः अध्यक्षतां कुर्वन् राज्यस्य जनानां कृते परिवहनसुविधां प्रदातुं निगमस्य सर्वाधिकमहत्त्वपूर्णां भूमिकां निर्वहति इति अवदत्। निगमस्य संचालनाय राज्यसर्वकारः सर्वसम्भवं समर्थनं करिष्यति इति आश्वासनं दत्तवान्। मुख्यमंत्री सुखविन्दरसिंहसुक्खुः अवदत् यत् यात्रिकाणां सुविधायै निगमः २५ नवीनानि वोल्वो- बसयानानि, ५० टेम्पो- ट्रैवलरयानानि च क्रेष्यन्ते। एतदतिरिक्तं निगमस्य समूहे विद्युत्बसयानानि समाविष्टानि भविष्यन्ति, यस्य क्रयणस्य प्रक्रिया प्रचलति। वर्तमानवित्तवर्षे विद्युत्बसक्रयणार्थं ३२७ कोटिरूप्यकाणां बजटं विनियोजितम् अस्ति। राज्ये सीमितवायुरेलजालं दृष्ट्वा निगमस्य महत्त्वपूर्ण-भूमिकायाः उपरि बलं दत्त्वा मुख्यमन्त्री जनानां कृते उत्तमसुविधाः प्रदातुं निगमस्य परिचालनं सुदृढं कर्तुम् आवश्यकतायाः उपरि बलं दत्तवान्। सः अवदत् यत् राज्यसर्वकारः निगमाय प्रतिमासं ६३ कोटिरूप्यकाणि प्रदास्यति। उपमुख्यमन्त्री मुकेश अग्निहोत्री इत्यनेन सभायां उक्तं यत् राज्ये परिवहनसुविधानां सुदृढीकरणेन सह विद्युत्बसयानानि पर्यावरणसन्तुलनं निर्वाहयितुं विशेषभूमिकां निर्वहन्ति। गोष्ठ्यां प्रधानसचिव: परिवहनं आर. डी. नजीम:, मुख्यमंत्रिण: सचिव: राकेशकंवर:, हिमाचलपथपरिवहननिगमस्य प्रबन्धनिदेशक: रोहनचंदठाकुर:, मुख्यमन्त्रिण: विशेषकार्याधिकारी गोपालशर्मा च उपस्थिता: आसन्।