HPCM : ‘सर्वकारस्य विपक्षस्य वा समर्थनं कर्तुं शक्नुवन्ति स्म निर्दलीयविधायका:, परन्तु व्यक्तिगतलाभार्थं स्वसदस्यतां समापितवन्त:
हिमसंस्कृतवार्ता: – शिमला ।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः पत्रकारैः सह अनौपचारिकवार्तालापस्य समये अवदत् यत् राज्यसर्वकारः दिल्लीसर्वकारेण सह कृतेन वचनेन दिल्लीप्रान्ताय जलं प्रदातुं प्रतिबद्धः अस्ति। त्रिषु विधानसभाक्षेत्रेषु भवितुं शक्नुवन्तः उपनिर्वाचनानां विषये सः अवदत् यत् एतेषु क्षेत्रेषु मतदातृभिः स्वतन्त्रविधायकाः निर्वाचिताः ये विधानसभायां विविधविषयेषु राज्यसर्वकारस्य वा विपक्षस्य वा समर्थनं कर्तुं शक्नुवन्ति स्म। तदपि ते सदस्यतायाः त्यागपत्रस्य निर्णयं केन आधारेण कृतवन्त: इति जनसामान्यस्य समक्षं स्थापयितव्यम्। ते व्यक्तिगतलाभाय स्वसदस्यतां समापितवन्त: इति स्पष्टम्। एतदपि द्रष्टव्यं यत् भाजपा एतान् त्रीन् पूर्वनिर्दलीयान् विधायकान् स्वप्रत्याशिनः इति घोषयति वा न वा इति।
सः अवदत् यत् एतेषां त्रयाणां विधानसभाक्षेत्राणां मतदातारः एतान् पूर्वविधायकान् प्रश्नं करिष्यन्ति यत् यदा ते पञ्चवर्षपर्यन्तं स्वनिर्वाचनक्षेत्रस्य नेतृत्वं कर्तुं चयनिताः आसन् तदा ते केभ्यः कारणेभ्यः उपनिर्वाचनस्य भारं राज्ये स्थापितवन्तः। एतस्मिन् समये मुख्यमन्त्री जम्मू-कश्मीरस्य रियासी-मण्डले तीर्थयात्रिकैः पूर्णे बसयाने आतङ्कवादी-आक्रमणस्य घोरनिन्दां कृतवान्। अस्मिन् आक्रमणे एतावता ९ जनाः मृताः।