HP Congress : भेदभावं विना हिमाचलाय सहयोगं दद्यात् केन्द्रसर्वकार: – प्रतिभासिंह
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
राज्यकाङ्ग्रेस-अध्यक्षा प्रतिभासिंह प्रधानमन्त्री नरेन्द्रमोदी-नेतृत्वेन देशे नवसङ्घटितस्य एनडीए-सर्वकारस्य अभिनन्दनं कुर्वन्ती आशां प्रकटितवती यत् सर्वकार: राज्यस्य काङ्ग्रेस-सर्वकाराय विना किमपि भेदभावं पूर्णं समर्थनं दास्यति इति। सा उक्तवती यत् लोकतन्त्रे निर्वाचितस्य कस्यापि सर्वकारस्य जनमतस्य प्रमुखः भागः भवति, तस्य पूर्णतया आदरः करणीयः। प्रतिभासिंह अवदत् यत् देशे कस्मिन् अपि स्तरे लोकतान्त्रिकमूल्यानां उल्लङ्घनं न कर्तव्यम्। सा अवदत् यत् देशे वर्धमाना महार्घता, अनुद्योग: च एतादृशौ समस्याद्वयं यस्य समाधानं शीघ्रमेव कर्तव्यम्। सा उक्तवती यत् प्रधानमन्त्रिणा देशस्य राज्यस्य च जनानां कृते सर्वा: निर्वाचनप्रतिज्ञा: पूर्णां कर्तुं तत्क्षणं पदानि ग्रहीतव्यानि।
प्रतिभासिंहमहोदयया प्रधानमन्त्रिणा नरेन्द्रमोदी इत्यस्मात् आग्रहः कृतः यत् राज्यस्य विकटाम् आर्थिकस्थितिं दृष्ट्वा राज्याय विशेषं आर्थिकसंकुलं दातव्यम् इति। सा उक्तवती यत् राज्यस्य काङ्ग्रेस-सर्वकारेण प्राकृतिक-आपदि प्रभावितानां जनानां कृते स्वस्य सीमित-सम्पदा सह यत्किमपि सम्भवं साहाय्यं कृतम्, प्रतिफलरूपेण केन्द्र-सर्वकारेण राज्याय किञ्चित् विशेष-वित्तीय-सहायता दातव्या। सा उक्तवती यत् लोकसभानिर्वाचनानन्तरं आरोपस्य प्रत्यारोपस्य च युगं समाप्तम् अतः केन्द्रसर्वकारेण मुक्तहृदयेन राज्यस्य साहाय्यं कर्तव्यम्। प्रतिभासिंह प्रधानमन्त्रिणा नरेन्द्रमोदिना आग्रहः कृतः यत् राज्ये औद्योगिकविकासाय अपि एकं संकुलं निर्गतं भवेत् येन राज्यं आर्थिकरूपेण स्वावलम्बनं कर्तुं दिशि अग्रे गन्तुं शक्नोति।