Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- नवघटितस्य केन्द्रीय-मन्त्रिपरिषदः मन्त्रिभिः मङ्गलवासरे निज-कार्यभारः सम्भालितः। एतेषु गृहमन्त्री अमित-शाहः, विदेश मन्त्री डॉ. एस. जयशंकरः, कृषिमन्त्री शिवराजसिंह चौहानः, सूचना-प्रसारण-मन्त्री अश्विनी वैष्णवः च सम्मिलिताः सन्ति ।
- विदेशमन्त्रालस्य पदभारग्रहणानन्तरं विदेशमन्त्री एस जयशङ्करः अवदत् यत् प्रथमं भारतं वसुधैव कुटुम्बकम् इति भारतीय-विदेशनीतेः अनुगुणं केन्द्रप्रशासनं कार्यं करिष्यति।
- तेलुगु देशम पार्टीति दलस्य प्रमुखः एन. चंद्रबाबू नायडू आन्ध्र-प्रदेश- विधानसभायां राष्ट्रिय-जनतान्त्रिक-संयुतेः नेता प्रचितः।
- सर्वोच्च न्यायालयेन अद्य ऐषमः नीट अर्थात् राष्ट्रिय-पात्रता-सह-प्रवेश-परीक्षायाः परिणामस्य अनन्तरं प्रवेशार्हता-प्रक्रियायां स्थगनं निराकृतम्।
हिमाचलवार्ता:
- मोदीसर्वकारस्य तृतीये चक्रे इतोऽपि जगतप्रकाशनड्डावर्यस्य वर्चस्वं वर्धितम्। केन्द्रस्य स्वास्थ्यमन्त्रालयेन सह रासायनिक-उर्वरकयोः दायित्वम् अपि वर्तते।
- हिमाचले पुनः आदर्श आचारसंहिता प्रवर्तते। परन्तु तस्य अधिकतमः प्रभावः हमीरपुर-कांगड़ा-सोलनम्-त्रिषु मण्डलेषु दृश्यते।त्रिषु विधानसभाक्षेत्रेषु उपनिर्वाचनानां समयनिर्धारणमात्रेण सोमवासरात् आदर्शाचारसंहिता प्रवर्तते। अधुना एतेषु त्रिषु मण्डलेषु कोऽपि प्रशासनिकः सर्वकारीयः वा निर्णयः कार्यान्वितः न भविष्यति।
- हिमाचलप्रदेशे शिमलाजिलादण्डाधिकारी अनुपम कश्यपः मंगलवासरे नगरस्य १० चिह्नितेषु स्थलेषु जनसभासु प्रदर्शनेषु प्रतिबन्धं कर्तुम् आदेशं दत्तवान्। अनुपमकश्यपः पञ्जाबराज्यसुरक्षाविधानस्य १९५३ तमस्य वर्षस्य धारा-६ इत्यस्य अन्तर्गतं आदेशान् प्रसारितवान् अस्ति।
- अस्मिन् समये हिमाचले अपि अत्यन्तं उष्णता अस्ति। ऋतुविज्ञानकेन्द्रशिमला इत्यस्य अनुसारं राज्ये जूनमासस्य १६ दिनाङ्कपर्यन्तं वातावरणं स्वच्छं भविष्यति इति पूर्वानुमानम् अस्ति। १२ जूनतः १४ पर्यन्तं समतलक्षेत्रेषु न्यूनोच्चक्षेत्रेषु च तापतरङ्गस्य पीतसचेतना निर्गता अस्ति।
क्रीडावार्ता
- दोहायां पञ्चविंशत्यधिक-द्विसहस्रतम वर्षस्य फीफा विश्वचषकस्पर्धा-पात्रतायै निर्णायक – द्वन्द्वस्य द्वितीय चक्रे भारतीय पादकन्दु दलम् एशियाई विजेता कतरं सम्मुखी करिष्यति।