Himachal Weather : केषुचित् उच्चपर्वतीय भागेषु वर्षायाः सम्भावना, समतलक्षेत्रेषु त्रिदिवसं यावत् तापतरङ्गस्य सचेतना
हिमसंस्कृतवार्ता: – शिमला।
अस्मिन् समये हिमाचले अपि अत्यन्तं उष्णता अस्ति । ऋतुविज्ञानकेन्द्रशिमला इत्यस्य अनुसारं राज्ये जूनमासस्य १६ दिनाङ्कपर्यन्तं वातावरणं स्वच्छं भविष्यति इति पूर्वानुमानम् अस्ति। १२ जूनतः १४ पर्यन्तं समतलक्षेत्रेषु न्यूनोच्चक्षेत्रेषु च तापतरङ्गस्य पीतसचेतना निर्गता अस्ति। जूनमासस्य १४ दिनाङ्के समतलक्षेत्रेषु, मध्यपर्वतेषु च केषुचित् स्थानेषु वर्षा भवितुम् अर्हति । जूनमासस्य १५ तः १७ पर्यन्तं सम्पूर्णे राज्ये वातावरणं स्वच्छमेव भवितुं शक्यते। राज्यस्य समतल-अल्प-उच्चता-भागेषु जून-मासस्य ११ तः १३ पर्यन्तं तापतरङ्गस्य पीत-सचेतना निर्गता अस्ति । अधुनैव हिमाचलस्य ऊनायां सर्वाधिकतापपमानं ज्ञातम्। अत्र ४३.४ डिग्री तापमानं ज्ञातम् अस्ति । तापमानं नेरी ४३.१, बिलासपुरे ४०.९, धौला कुआं ३९.२, हमीरपुरे ३९.७, नाहाने ३८.९, मण्ड्यां ३७.८, सोलने ३५.०, सुन्दरनगरे ३७.८, धर्मशालायां ३५.१, बाजौरायां ३६.७ तथा शिमलायां २९.० डिग्री सेल्सियस तापमानमासीत्।