Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
- श्री नरेन्द्रमोदी नवदिल्लीनगरे क्रमशः तृतीयवारं प्रधानमन्त्रीरूपेण शपथं गृहीतवान्। राष्ट्रपति द्रौपदी मुर्मू इत्यनया राष्ट्रपतिभवने नूतनकेन्द्रीयमन्त्रिमण्डलाय पदस्य, गोपनीयतायाः च शपथं कारितम् । भारतीय-जनतादलस्य वरिष्ठनेता राजनाथसिंहः, अमितशाहः, नितिनगडकरी, डॉ. एस.जयशंकरः, पीयूषगोयलः, धर्मेन्द्रप्रधानः, राज्यसभा सांसदः निर्मला सीतारमणः , दलस्य अध्यक्ष जे.पी.नड्डा, मध्यप्रदेशस्य पूर्वमुख्यमंत्री शिवराजसिंहचौहानः, हरियाणायाः पूर्वमुख्यमंत्री मनोहरलालः मन्त्रिमण्डलमन्त्रीरूपेण शपथग्रहणं कृतवन्तः ।
- दिल्लीनगरे प्रधानमन्त्रिण: नरेन्द्रमोदिन: शपथग्रहणसमारोहे हिमाचलस्य ३०० अधिकारिणः उपस्थिताः अभवन्। भाजपादलस्य राष्ट्रीयाध्यक्ष: जगतप्रकाशनड्डा हिमाचल भाजपाया: अधिकारिणः कार्यकर्तृन् च शपथग्रहणसमारोहे भागं ग्रहीतुं आमन्त्रितवन्तः आसन्। भाजपादलस्य राष्ट्रीयाध्यक्षः जेपीनड्डा अपि मन्त्रिमण्डले समाविष्टः अस्ति।
- अस्मिन् वर्षे जुलाईमासस्य २८ दिनाङ्कात् अगस्तमासस्य ४ दिनाङ्कपर्यन्तम् अन्ताराष्ट्रीयमिञ्जरमेला आयोज्यते। रविवासरे बचतभवने मिञ्जरमेलायाः सफलसङ्घटनार्थं सभायाः आयोजनं कृतम्। सभाया: अध्यक्षता कुलदीपसिंहपठानियावर्येण कृता। सभायां मेलायाः सफलसङ्घटनस्य विषये सर्वकारीय- असर्वकारीय- सदस्यानां परामर्शा: गृहीताः।
- मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् राज्यसर्वकारः देवभूमिं वीरभूमिं च हिमाचलप्रदेशं क्रीडाक्षेत्रं करणाय निरन्तरं प्रयत्नान् कुर्वन् अस्ति। राज्यस्य प्रत्येकं क्षेत्रात् क्रीडाप्रतिभाः आविष्कृताः सन्ति, तेषां प्रतिभा च परिष्कृता भवति। राज्यसर्वकारेण राज्ये क्रीडायाः प्रचारार्थम् अनेकानि पदानि कृतानि सन्ति। विभिन्नेषु अन्ताराष्ट्रीयस्पर्धासु पदकविजेतृणां पुरस्कारधनस्य महती वृद्धिः अपि च क्रीडकानां कृते आहारधनस्य यात्राप्रावधानस्य च वृद्धिः सर्वकारेण कृता अस्ति।
- अधुना हिमाचलप्रदेशस्य राजधान्या: शिमलाया: पर्यटनस्थले कुफरी इत्यत्र पर्यटकाः १२ मासान् यावत् हिमस्य आनन्दं प्राप्तुं शक्नुवन्ति। पर्यटकानाम् आवर्षं हिमस्य आनन्दं दातुं कुफरी इत्यत्र हिमराज्यस्य निर्माणं कृतम् अस्ति । कुफरीक्षेत्रं प्राकृतिकसौन्दर्यस्य, हिमपातस्य च कृते प्रसिद्धम् अस्ति । एतद् क्षेत्रम् हिमालयस्य अधोपर्वतेषु स्थितम् अस्ति । नवम्बर-फरवरी-मासयोः मध्ये शिशिरे कुफरी इत्यत्र हिमपातः भवति।
- अधुना लाहौलस्य वाहनानि समदो: साडा-अवरोधस्थाने स्वतन्त्रतया गन्तुं शक्नुवन्ति । लाहौलतः वाहनानां कृते अत्र शुल्कं न दातव्यं भविष्यति। पूर्वं स्पीतिं विहाय लाहौलस्य वाहनानां प्रवेशशुल्कं सदा अवरोधके अर्थात् बैरियर इत्यत्र गृहीतम् भवति स्म। लाहौल-स्पीते: नवनिर्वाचिता विधायिका अनुराधाराणा कार्ये आगता। सा स्पीतिप्रशासनं लाहौलस्य वाहनेभ्यः अपि प्रवेशशुल्कं न गृह्णीयात् इति निर्देशं दत्तवती।