Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
- लोकसभानिर्वाचने भाजपा-नेतृत्वेन एनडीए- सर्वकारेण स्पष्टबहुमतं प्राप्तम्। एनडीए गठबन्धनेन निर्वाचने २९२ आसनानि प्राप्तानि सन्ति। तेषु भाजपा स्वयमेव २४० आसनानि प्राप्तवती। एतादृशे सति एनडीए तृतीयवारं केन्द्रे सर्वकारस्य निर्माणं कर्तुं गच्छति। नूतनसर्वकारस्य शपथग्रहणस्य तिथिः समयः च निर्णीतः अस्ति। मीडिया-सञ्चारमाध्यमानाम् अनुसारं प्रधानमंत्रिणः नरेन्द्रमोदीवर्यस्य शपथग्रहणसमारोहः जूनमासस्य ०८ दिनाङ्के सायंकाले भवितुं शक्नोति।
- प्रधानमन्त्रिणा नरेन्द्रमोदिना विश्वपर्यावरणदिवसस्य अवसरे बुद्धा-जयन्ती-उद्याने वृक्षारोपणं कृत्वा ‘एक पेड माँ के नाम’ इति अभियानस्य आरम्भं कृतम्। अस्य अभियानस्य उद्देश्यं देशे सर्वत्र कोटि-वृक्षाणां रोपणार्थं अद्वितीयं जन-आन्दोलनं निर्मातुं वर्तते।
- हिमाचलप्रदेशस्य राजधानी शिमलानगरे सम्मर्दस्य निवारणाय राज्यसर्वकारः जाखुपर्वतस्य अधः नवबहारतः वृत्तीयमार्गे (सर्कुलर-रोड़) इन्दिरागान्धी- चिकित्सा- महाविद्यालयपर्यन्तं ८९० मीटरदीर्घा द्विपङ्कतिकन्दरा निर्मास्यते। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः बुधवासरे लोकनिर्माणविभागस्य अधिकारिभिः सह गोष्ठ्या: अध्यक्षतां कुर्वन् एतां सूचनां दत्तवान्। २९५ कोटिरूप्यकाणां व्ययेन कन्दराया: निर्माणं भविष्यति, यस्मात् १०० कोटिरूप्यकाणि पूर्वमेव मुक्तानि सन्ति, अस्य मासस्य अन्ते यावत् निविदाप्रक्रिया आरभ्यते इति मुख्यमन्त्री अवदत्।
- हिमाचले लोकसभानिर्वाचनं सम्पन्नम्। यस्मिन् लोकसभानिर्वाचनस्य मण्डीसंसदीयक्षेत्रस्य निर्वाचनम् बहु ऊष्णमासीत्। राजनैतिकयुद्धम् अभवत् अस्मिन् युद्धे एकतः मायानगर्याः राज्ञी अपरतः राजनीते राजा आसीत्, परन्तु मायानगर्याः राज्ञी राजनीते राजानं पराजयितुं सफला अभवत्। मण्डीविजयस्य नायकः जयरामठाकुरः अभवत्, स: क्षणमपि कङ्गनाया: पक्षं न त्यक्तवान्।
- हिमाचलप्रदेशस्य अनेकेषु भागेषु ऋतौ परिवर्तनं जातम्। बुधवासरे अपराह्ने कुल्लुनगरे प्रचण्डवृष्टिः अभवत्। अत्यधिकवृष्ट्या तापमानस्य न्यूनता ज्ञाता। वर्षाकारणात् जनाः उष्णतायाः किञ्चित् विश्रान्तिं प्राप्तवन्तः। तत्सह शिमलामण्डलस्य अपि अनेकेषु भागेषु वर्षा अभवत्। चौपालस्य थरोचक्षेत्रे अश्मपातेन सह वर्षा अभवत्।
- किरतपुरनेरचौकस्य चतुष्पंक्तिराजर्मार्गस्य निर्माणानन्तरं यात्रा विश्रान्तिदायिनी अभवत्। अन्तरम् अपि न्यूनीकृतम् अस्ति। अस्मिन् मार्गे यात्रीवाहनानां अभावं पूरयितुं हिमाचलपथपरिवहननिगमस्य (एचआरटीसी) बिलासपुर-आगारेन हमीरपुरतः चण्डीगढं यावत् बसमार्गद्वयं प्रारब्धम् अस्ति।
- शासनपरिवर्तनानन्तरं स्थगितस्य भजवानीसेतुनिर्माणप्रक्रिया आदर्शाचारसंहिताया: निष्कासनानन्तरं आरभ्यते इति संभावना वर्तते। अस्य सेतो: द्वयोः अन्तयोः निर्माणस्य मार्गस्य भूमिं प्राप्तुं मुख्य- अभियंताकार्यालयात् २ कोटि ६० लक्षं ६० सहस्ररूप्यकाणां राशिः अनुमोदिता। अयं सेतुः राजा अमीचन्देन १८८९ तमे वर्षे निर्मितम्। सेतुनिर्माणानन्तरं सदर, घुमारवीं झण्डुता विधानसभाक्षेत्रस्य ३५ पंचायतानां लाभः भविष्यति।