Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता
- लोकसभा-निर्वाचनस्य मङ्गलवासरे भविष्यमाणायै मतगणनायै सर्वाः व्यवस्थाः सज्जताश्च सम्पूरिताः। आन्ध्रप्रदेश-ओडिसा-विधानसभयोः विधानसभासनानाम् मतगणना अपि भविष्यति।
- लोकसभा-निर्वाचने चतुष्षष्टिः कोट्यधिकैः मतदातृभिः निज-मताधिकारस्य प्रयोगं कृत्वा कीर्तिमानं संस्थापितम्। एतस्मिन् लोकसभा-निर्वाचने एकत्रिंशत्-महिला-मतदात्र्यः मतदानं कृतवत्यः यत् विश्वस्मिन् सर्वाधिकम् अस्ति।
- प्रधानमन्त्रिणा नरेन्द्रमोदिना समुदीरितं यत् एकविंशतिशताब्द्याः विश्वं बहुभिः आशाभिः सह भारतं प्रति पश्यति।
- मध्यप्रदेशराज्ये ह्यः राजस्थान-राजगढ-सीम्नि कर्षयानस्य परिवृतात् त्रयोदशजनाः दिवंगताः जाताः पञ्चदश च व्रणिताः।
- मतगणनानुमानात् प्राक् भारतीय-पीठ-सूचकांकः ‘निफ्टी’ सेंसेक्स उभयोः त्रिप्रतिशताधिकं वृद्धिः जाता। एतादृशी वृद्धिः प्रथमवारमेव अवलोक्यते।
- विंशति-प्रतिविंशतिः विश्वचषकक्रिकेट प्रतिस्पर्धायां नामीबिया दलेन ओमान दलं पराजित्य प्रतिस्पर्धायां सफलतामेति। अवधेयं यत् सुपरओवर क्रीडा चक्रे प्रथमं क्रीडयत् नामीबिया दलं एकादश अङ्कान् पराजितवत्।
हिमाचलवार्ता:
- अन्ताराष्ट्रीया-गीता-ओलम्पियाड- परीक्षायां पार्थस्तरे राज्यस्तरे बिजन-ढलवानस्य मैहक द्वितीयं कमल: च तृतीयं स्थानं प्राप्तवन्तौ। अर्जुनस्तरे राज्यस्तरे विद्यालयस्य संस्कृतशिक्षक: मनोजकुमारशैल: प्रथमं स्थानं प्राप्नोत्
- लोकसभा-विधानसभा-उपनिर्वाचनयोः परिणामस्य घोषणायाः पूर्वं हिमाचलप्रदेशे नूतनः राजनैतिकं घटनाचक्रम् अभवत्। विधानसभा अध्यक्षः कुलदीपसिंहपठानिया विधानसभासदस्यतायाः त्रयाणां स्वतन्त्रविधायकैः दत्तं त्यागपत्रं स्वीकृतवान्। अधुना राज्यविधानसभायाः कृते त्रीणि उपनिर्वाचनानि भविष्यन्ति।
- हमीरपुरतः अमृतसरमार्गेण गच्छत: हिमाचल- पथ- परिवहन- निगमस्य हमीरपुरस्य आगारस्य बसयानं सहसा अग्निम् अयच्छत्। पञ्जाबप्रदेशस्य खिलचियां- स्थानकस्य समीपे एषा घटना अभवत्। अग्ने: कारणं अद्यापि स्पष्टं न जातम्। निगमस्य हमीरपुर-आगारस्य अधिकारिणः सूचनां प्राप्य तत्स्थानं प्रति प्रस्थिताः सन्ति।
- काङ्गड़ामण्डलान्तर्गतं पठियारग्रामस्य क्रीडकः अंकेशचौधरी देशाय स्वर्णपदकं प्राप्तवान्। अस्य क्रीडकस्य उत्तमप्रदर्शनस्य कारणेन ताइवान- एथलेटिक्स- ओपन- २०२४ एथलेटिक्सस्पर्धायां स्वनामार्जितम् अस्ति। प्रथमवारं ८०० मीटरमिते धावने देशस्य प्रतिनिधित्वं कृत्वा अङ्केशचौधरी देशं विजेतारं कृतवान्।