Election Result : भारतीय जनतापार्टीति दलेन अरुणाचलप्रदेशः नैर्वाचनिकसमराङ्गणं विजित्य सुरक्षितः
हिमसंस्कृतवार्ता । भारतीय जनतापार्टीति दलेन अरुणाचलप्रदेशराज्यं नैर्वाचनिकसमराङ्गणं विजित्य सुरक्षितम्। सिक्किमक्रान्तिमोर्चा इत्याख्येन दलेनापि द्वात्रिशंदासनेषु एकत्रिशंत् स्थानानि विजित्य सिक्किमप्रदेशे पुनरेकवारं सत्ता प्राप्ता। उभयोः पूर्वोत्तरीयराज्ययोः विधानसभा- निर्वाचनस्य अद्य मतगणना आसीत्। उभयत्र हि एकोनविंशे अप्रैलमासे मतदानमासीत्। यत्र अरुणाचलप्रदेशे षष्टिः आसन्दानि आसन्, तत्रैव सिक्किमे द्वात्रिंशत् आसन्दानि आसन्। अरुणाचलप्रदेशे च भाजपेति दलेन दश आसनेषु निर्विरोधतया निर्वाचनपुरस्सरम् आहत्य षड्चत्वारिंशत्स्थानानि सन्ति सुरक्षितानि ।
Election Result : भारतीय जनतापार्टीति दलेन अरुणाचलप्रदेशः नैर्वाचनिकसमराङ्गणं विजित्य सुरक्षितः
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment