द्विचक्रिकया विश्वस्य सर्वोच्चमतदानकेन्द्रं टशिगङ्गं प्राप्तवान् राज्यस्य अनुप्रतीक: जसप्रीतपॉलः
हिमसंस्कृतवार्ता- शिमला।
सामान्यतया भवन्तः अवश्यं दृष्टवन्तः यत् प्रसिद्धं मुखं कस्यचित् अभियानविशेषस्य चिह्नरूपेण भवति। तदनन्तरं तत् प्रसिद्धं मुखं चिह्नरूपेण किं कृतवान् इति कदापि न दृश्यते, परन्तु मण्डीमण्डलस्य प्रसिद्धः द्विचक्रिकाचालकः जसप्रीतपॉलः अनुप्रतीकस्य वास्तविकः अर्थः किम् इति सिद्धवान्।
लोकसभानिर्वाचनस्य समये राज्यनिर्वाचन-आयोगेन जसप्रीतपॉल: राज्यस्य अनुप्रतीक: (Icon) कृत:। निर्वाचन- आयोगस्य साहाय्येन जसप्रीतः न केवलं द्विचक्रिकाया: माध्यमेन राज्यस्य १२५० कि. मी. पर्यन्तं गत्वा २२.५ सहस्रमीटर ऊर्ध्वतां प्राप्य जनान् मतदानार्थं प्रेरितवान् अपितु पर्यावरणसंरक्षणस्य सन्देशं अपि दत्तवान्। जसप्रीतः शिमलातः लाहौलस्पीतिमण्डलस्य टशिगङ्गपर्यन्तं प्रथमयात्राम् अकरोत्। टशिगाङ्ग-ग्राम: विश्वस्य सर्वोच्चस्थाने स्थितं मतदानकेन्द्रम् अस्ति। शिमला, किन्नौर, लाहौल- स्पीति- मण्डलानां मतदातृभिः सह मिलित्वा तेभ्यः निर्वाचन-आयोगस्य सन्देशं प्रसारयित्वा अधिकतममतदानार्थं प्रेरितवान्। तदनन्तरं मण्डीतः चम्बामण्डलस्य भरमौरपर्यन्तं द्वितीया यात्रा आसीत्। अस्मिन् सः मण्डी- काङ्गड़ा- चम्बा- मण्डलानां मतदातत्वॄन् मिलित्वा अधिकतमं मतदानस्य आह्वानं कृतवान्।
जसप्रीतः अवदत् यत् यात्राकाले आदि जनजातीये क्षेत्रे न्यूनतमे २ डिग्री तापमाने द्विचक्रिकया काङ्गड़ामण्डले ४५ डिग्री तापमाने अपि बहु परिश्रमं कृतवान्। शिमलातः टशिगङ्गपर्यन्तं यात्रायां जसप्रीतेन सह क्षतिजठाकुरः, भरमौरस्य यात्रायां साइरसमोहनः च महत्त्वपूर्णं योगदानं दत्तवन्तौ। उभौ शिमलाया: निवासिनौ स्तः। जसप्रीतः दिवारात्रौ द्विचक्रिकाम् आरुह्य अवदत् यत् एतत् कार्यं यद्यपि आह्वानात्मकं भवति तथापि तस्मिन् किञ्चित् नूतनं अपि अस्ति, एतत् कृत्वा आध्यात्मिकसन्तुष्टिः प्राप्ता। जसप्रीतः अस्य सम्पूर्णस्य अभियानस्य कृते राज्य- निर्वाचन- आयोगस्य विशेषं कृतज्ञतां प्रकटितवान्, यस्य माध्यमेन अद्य सः एतम् अवसरं प्राप्तवान्, एतत् सर्वं कर्तुं सः सफलः अभवत्। जसप्रीतः अवदत् यत् सम्पूर्णे यात्राकाले सः न केवलं जनान् मतदानं प्रति प्रेरितवान्, अपितु विशेषतया युनः क्रीडायाः प्रति प्रेरितवान्, यतः अद्यत्वे यूनां सन्तति: क्षेत्रात् दूरं गच्छति। सः युनां आह्वानं कृतवान् यत् ते कस्यापि क्रीडायाः दैनन्दिनकार्यक्रमस्य भागं कुर्वन्तु। तेन सह जनान् पर्यावरणसंरक्षणस्य सन्देशं दत्त्वा अत्र वायुः स्वच्छः, निर्मल: च भवतु इति अपि आह्वानं कृतवान्।