HP Election: हिमाचले दिग्गजैः कृतम् मतदानम्
मुख्यमंत्रिणा सुखविंदर सिंह सुक्खुना, जगतप्रकाशनड्डावर्येण, केंद्रीयमंत्रिणा अनुरागठाकुरेण, पूर्व मुख्यमंत्रिणा जयरामठाकुरेण कंगनारनौतया च कृतं मतदानम्
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
लोकसभानिर्वाचनस्य अन्तिमचरणस्य शनिवासरे हिमाचलप्रदेशस्य चतुर्णां लोकसभासनानां षट्विधानसभासनानां च उपनिर्वाचनानां कृते मतदानं अभवत्। अस्मिन् काले दिग्गजाः मतदानं कृतवन्तः।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः नादौन- विधानसभाक्षेत्रस्य भवडां राजकीय- प्राथमिक- विद्यालये स्वपरिवारेण सह मतदानं कृतवान्।
भाजपादलस्य राष्ट्रीयाध्यक्षः जगतप्रकाशनड्डा बिलासपुरजनपदस्य विजयपुरे स्वपरिवारेण सहितं मतदानम् अकरोत्।
हमीरपुरलोकसभाक्षेत्रत: केंद्रीयमंत्री एवं भाजपाप्रत्याशी अनुरागठाकुर: मतदानं कृतवान्। मण्डीलोकसभासनतः भाजपाप्रत्याशी कंगनारनौत अपि मतदानं कृतवती। उपमुख्यमन्त्री मुकेश: अग्निहोत्री स्वपुत्री आस्था अग्निहोत्री इत्यनया सह मतदानं कृतवान्। काङ्ग्रेस प्रत्याशी विक्रमादित्यसिंह: अपि परिवारेण सहितं मंडीलोकसभाक्षेत्रत: मतदानम् अकरोत्। हिमाचलप्रदेशस्य पूर्व मुख्यमंत्री एवं नेताप्रतिपक्ष: एवं जयरामठाकुर: सिराजस्य ओहणमतदानकेन्द्रे मतदानं कृतवान्। हिमाचलप्रदेशस्य विधानसभाध्यक्ष: कुलदीपसिंह: पठानियया स्वकीय- स्थानीयग्रामपंचायतस्य छलाड़ाया: ९९ मतदानकेन्द्रे परिवारेण सह मतदानं कृतवान्। शिमलालोकसभासनत: भाजपा प्रत्याशी सुरेशकश्यप: गगलशिकोरे मतदानम् अकरोत्।