विवेकानन्दस्मारके प्रधानमन्त्रिणः ४५ घण्टापर्यन्तं दीर्घं ध्यानं प्रारब्धम्
प्रधानमन्त्री नरेन्द्रमोदी कन्याकुमार्याः विवेकानन्दशिलास्मारके ४५ घण्टापर्यन्तं दीर्घं ध्यानं प्रारब्धवान्। गुरुवासरे सायंकाले प्रधानमन्त्री मोदी तिरुवनन्तपुरमतः चक्रविमानेन कन्याकुमारीनगरं गत्वा अत्रत्य भगवती अम्मानमन्दिरे प्रार्थनां कृतवान्। तदनन्तरं प्रधानमन्त्री मोदी नौकायानेन विवेकानन्दशिलास्मारकं प्राप्य ध्यानं प्रारभत। पीएम मोदी इत्यस्य ध्यानं जूनमासस्य प्रथमदिनाङ्कपर्यन्तं भविष्यति।कान्यकुमारीनगरस्य प्रसिद्धे भगवती अम्मानमन्दिरे प्रधानमन्त्री मोदी प्रार्थनां कृतवान। श्वेत धौतं शालं च धारयन् प्रधानमन्त्री मोदी प्रथमवारं मन्दिरस्य गर्भगृहे पूजां कृतवान् । मन्दिरस्य पुरोहिताः विशेषा आरतीं कृत्वा प्रधानमन्त्रिणं प्रसादं दत्तवन्तः ।
विवेकानन्दस्मारके प्रधानमन्त्रिणः ४५ घण्टापर्यन्तं दीर्घं ध्यानं प्रारब्धम्
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment