Rahul Gandhi Rally : नाहने प्रधानमन्त्रिणं लक्ष्यीकृतवान् राहुलगांधी उक्तं मोदिन: साक्षात् भगवता सह सम्पर्कः
हिमसंस्कृतवार्ता- नाहनम्।
काङ्ग्रेसस्य पूर्वाध्यक्षः राहुलगान्धी नाहननगरं प्राप्तवान्, यत्र जनसभां सम्बोधयन् सः प्रधानमंत्रिणं मोदिनं भाजपासर्वकारं च घोररूपेण लक्ष्यं कृतवान्। अस्मिन्नवसरे मुख्यमंत्री सुखविन्दरसिंहसुक्खुः, कांग्रेसस्य प्रदेशाध्यक्षा प्रतिभासिंह, हिमाचलप्रदेशस्य काँग्रेसप्रभारी राजीव शुक्ला च सहैव उपस्थिताः आसन्।
नाहनस्य चम्बाप्राङ्गणे सभां सम्बोधितवान्
हिमाचलप्रदेशस्य सिरमौरजिल्लामुख्यालयस्य नाहनस्य चम्बाप्राङ्गणे सभां सम्बोधयन् सांसद: राहुलगान्धी दिल्लीमीडियाया: ऊपरि आक्षेपं कृतवान्। राहुलगान्धी उक्तवान् यत् देशस्य मीडिया मोदिना अडाणिना, अम्बानिना च सह सन्धिद्वारा चाल्यते। मीडियायाः विश्वसनीयता नष्टा अस्ति।
अधुना देशस्य मीडिया प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य साक्षात्कारं दर्शयति, यस्मिन् मोदी इत्यस्य चत्वारः चमसा: पृच्छन्ति, मोदी जी आम्रं कथं खादति इति। त्वक्निस्सार्य वा चूषयित्वा वा खादन्ति। यस्मिन् मोदी प्रतिवदति यत् सर्वं स्वयमेव भवति। तस्मिन् विषये चमसा: अहो मोदी अहो इति वदन्ति।
मोदिन: भगवता सह साक्षात् सम्पर्कः – राहुलगांधी
राहुलगान्धी उक्तवान् यत् मोदी साक्षात्कारेषु वदति यत् ईश्वरः तस्य मार्गदर्शनं करोति। मोदी इत्यस्य ईश्वरेण सह प्रत्यक्षः सम्बन्धः अस्ति। राहुलगान्धी ३० निमेषात्मके भाषणे आर्धाधिकं समयं मीडियाया: उपरि वाक्प्रहारे एव व्यतीतवान् ।
अडाणी सेबमूल्यस्य निर्धारणं करोति- राहुलगांधी
राहुलगान्धी उक्तवान् यत् अडाणी सेबस्य मूल्यानि निर्धारयति। हिमाचलस्य कृषकाणां सेबस्य न्यूनमूल्यानि प्राप्यमाणानां वार्ता किमपि मीडिया दर्शितवती वा? ५ जुलैतः देशस्य कृषकाणां, श्रमिकिणां, निर्धनपरिवारानाञ्च वित्तकोषसंख्यासु प्रतिमासं ८५०० रूप्यकाणि निक्षिप्तानि भविष्यन्ति। तदा देशस्य मीडियाजना: वदिष्यन्ति यत् राहुलगान्धिः देशस्य जनान् निष्क्रियं करोति, तदा अहम् एतां राशिं द्विगुणं करिष्यामि।
देशः २० तः २५ जनानां हस्ते समर्पितः अस्ति– राहुलगान्धी
नरेन्द्रमोदी विगतदशवर्षेषु २० तः २५ जनानां कृते देशं समर्पितवान्। विमानस्थानकात् आरभ्य बृहत्संयन्त्राणि यावत् अडाणीवर्याय समर्पितानि सन्ति। नरेन्द्रमोदी इत्यनेन २२ जनानां कृते यत् १६ लक्षकोटिरूप्यकाणां ऋणं क्षमितम् अस्ति तत् आगामिनां २४ वर्षाणां कृते मनरेगाकर्मचारिणां दैनिकवेतनं दातुं शक्नोति स्म।