Himachal News : हिमाचले चतुर्दिनानि यावत् तापतरङ्गस्य पीतसचेतना, मतदानदिने लघुवृष्टेः सम्भावना
हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।
आगामिषु चतुर्दिनेषु हिमाचलप्रदेशः अत्यन्तं तापस्य सम्मुखीकरणं कर्तुं प्रवृत्तः भविष्यति। अस्मिन् काले राज्ये तापतरङ्गः प्रबलः भवितुम् अर्हति। राज्यस्य समतल-मध्य-उच्च-पर्वत-क्षेत्रेषु मई-मासस्य ३१ दिनाङ्के वर्षायाः सम्भावना वर्तते। मतदानदिने जूनमासस्य प्रथमदिने राज्ये लघुवृष्टेः सम्भावना वर्तते।
ऋतुविज्ञानकेन्द्रम् द्वारा शिमला- कांगड़ा- हमीरपुर- ऊना- बिलासपुर- सोलन- सिरमौरसहितेषु षट्जनपदेषु तापतरङ्गस्य पूर्वानुमानं प्रसारितम्। शिमला- चम्बा- कुल्लू- मण्डी- काङ्गड़ा- हमीरपुर- ऊना- बिलासपुर- सोलन- सिरमौर-इत्यादिषु १० जनपदेषु मई २७ तः ३० पर्यन्तं तापस्य तरङ्गस्य पूर्वानुमानं वर्तते। रविवासरे ऊनानगरे अधिकतमं तापमानं ४४.४ डिग्री सेल्सियसः अभवत्। बिलासपुरे ४२.९ डिग्री, धौलाकुआंयां ४२.८, बरठीं इत्यतु ४१.२, हमीरपुरे ४२.१, कांगड़ायां ४०.२ डिग्री च अभवत्। रविवासरे हिमाचलप्रदेशे न्यूनतमं तापमानं कुकुमसेरीक्षेत्रे ७.६ डिग्री सेल्सियसः, केलाङ्गनगरे ८.२ डिग्री सेल्सियसः च अभवत्।
रविवासरः शिमलायां ऋतो: उष्णतमः दिवसः आसीत्, तापमानं ३०.६ डिग्री आसीत्
राजधान्यां रविवासरः ऋतो: उष्णतमः दिवसः आसीत्। रविवासरे तापमानं ३०.६ डिग्री यावत् अभवत्। एतत् औसतात् ५ डिग्री अधिकम् अस्ति। शिमलानगरस्य न्यूनतमं तापमानम् अपि १८.६ डिग्री-परिधिः आसीत् यत् औसतात् ३ डिग्री अधिकं भवति। २०१० तमस्य वर्षस्य मईमासस्य २७ दिनाङ्के शिमलानगरे सर्वाधिकं तापमानं ३२.४ डिग्री सेल्सियस आसीत्।