Himachal News : हिमाचले अत्यन्तं तापः, सप्तस्थानेषु तापमानं ४० पारम् गतम्
हिमसंस्कृतवार्ता- शिमला।
हिमाचलप्रदेशस्य समतलक्षेत्रेषु, निम्नोच्चक्षेत्रेषु च जनाः तीव्रतापस्य सम्मुखीकरणं कुर्वन्ति। नारङ्गसचेतनाया: (ऑरेन्ज अलर्ट) मध्ये सोमवासरे ऊना, हमीरपुरम् इत्यादिषु राज्यस्य सप्तनगरेषु अधिकतमं तापमानं ४० डिग्री सेल्सियसतः अधिकं जातम्। ऊनानगरे अधिकतमं तापमानं ४४.० डिग्री सेल्सियस आसीत्। ऋतुविज्ञानकेन्द्रं शिमला इत्यनेन मे २८ दिनाङ्कस्य कृते अनेकभागेषु तापतरङ्गस्य नारङ्गवर्णीयसचेतना अपि प्रसारिता अस्ति। मई २९ दिनाङ्कस्य कृते पीतवर्णीयसचेतना अस्ति। विभागस्य अनुसारं मे २९ तः जून २ पर्यन्तं राज्यस्य अनेकेषु भागेषु वर्षा भवितुम् अर्हति। एतेन जनानां तप्ततापात् मुक्तिः भविष्यति इति अपेक्षा अस्ति ।
एतेषु जनपदेषु तापतरङ्गसचेतना
ऋतुविज्ञानकेन्द्रशिमला-अनुसारं बिलासपुर- हमीरपुर- काङ्गड़ा- मण्डी- सिरमौर- सोलन- ऊना- जनपदेषु एकस्मिन् वा द्वयोः स्थानयोः तापतरङ्गस्य सम्भावना वर्तते। लोकसभानिर्वाचनस्य, विधानसभाया: उपनिर्वाचनस्य च मतदानदिने लघुवृष्टेः सम्भावना वर्तते। विभागेन जनान् तापस्य, निर्जलीकरणस्य च संपर्कं न कुर्वन्तु इति परामर्श: प्रदत्त:। पिपासा न भवति चेदपि पर्याप्तं जलं पिबन्तु। स्वं जलयुक्तं स्थापयितुं ORS, गृहे निर्मितं पेयं यथा तक्रम् (लस्सी), तण्डुलजलम् (तोरानी), नीम्बजलं, इत्यादीनां सेवनं कुर्वन्तु।
कुत्र कियत् अधिकतमं तापमानम्
स्थानम् तापमानं (सेल्सियस-अङ्केषु)
ऊना ४४.०
बिलासपुरम् ४२.७
बरठीं ४०.८
हमीरपुरम् ४१.९
धौलाकुआं ४१.८
चम्बा ४०.२
सुन्दरनगरम् ३९.८
काङ्गड़ा ३९.२
शिमला ३०.४
नाहनम् ३८.७
मण्डी ३९.४
ऋतुविज्ञानकेन्द्रस्य शिमलाया: निदेशकेन किम् उक्तम्-
शिमलानगरस्य ऋतुविज्ञानकेन्द्रस्य निदेशकः सुरेन्द्रपॉलः अवदत् यत् २०१४ तमस्य वर्षस्य अनन्तरं रविवासरे शिमलानगरे सर्वाधिकं तापमानं ३०.६ डिग्री सेल्सियसपर्यन्तम अभवत्। आगामिषु ४८ होरासु तापतरङ्गः निरन्तरं भविष्यति तदनन्तरं मे २९-३० दिनाङ्के पश्चिमविक्षोभस्य सक्रियीकरणस्य कारणात् तापतरङ्गात् निवृत्तिः भविष्यति, तापमानमपि न्यूनीभवति। केषुचित् क्षेत्रेषु वर्षणस्य सम्भावना अपि अस्ति।