Lok Sabha Election : भारतीय-तिब्बत-सीमा-पुलिसस्य पञ्चवाहिन्य: हिमाचलं प्राप्ता:, १८००० पुलिसकर्मचारिणः अपि नियोजिताः भविष्यन्ति
हिमसंस्कृतवार्ता- शिमला।
लोकसभानिर्वाचनार्थं भारतीय-तिब्बत-सीमा-पुलिसस्य (आईटीबीपी) पञ्चवाहिन्य: हिमाचलप्रदेशं प्राप्ता: । मे २५ तः बहिः राज्येभ्यः केन्द्रीयरिजर्वपुलिसबलस्य (सीआरपीएफ) कर्मचारिणः आगमनमपि आरप्स्यते। एते सैनिकाः हिमाचलस्य अन्यराज्यैः सह सीमासु, नियन्त्रणकक्षेषु, गणनाकेन्द्रेषु च नियोजिताः भविष्यन्ति। एतदतिरिक्तं सुरक्षायै १८००० पुलिसकर्मचारिणः १० सहस्रगृहरक्षकाः च नियोजिताः भविष्यन्ति। केन्द्रीयसेनायाः ६३ कम्पन्यः राज्ये सुरक्षां स्वीकुर्वन्ति। मतदानस्य षष्ठं चरणं मे २५ दिनाङ्के भविष्यति।
तदनन्तरं सप्तमे चरणे सुरक्षाबलानि हिमाचलम् आगमिष्यन्ति। राज्यनिर्वाचनविभागेन सज्जता सम्पन्ना। सुरक्षाकारणात् हिमाचलस्य बाह्यराज्यैः सह सीमासु अतिरिक्तपुलिसदलानि सज्जीकृतानि सन्ति। राज्ये मद्यस्य, मादकद्रव्यस्य च तस्करीं स्थगयितुं अपि सम्पूर्णतया सतर्कता क्रियते। राज्यस्य प्रवेशद्वारेषु निरीक्षणं कृत्वा एव वाहनानां प्रवेशः क्रियते। हिमाचले आगच्छतां गच्छतां च जनानां विषये पुलिसस्य दृष्टिः अस्ति।
पञ्जाब-हरियाणा-समीपस्थेषु हिमाचल-सीमाक्षेत्रेषु बिलासपुर-काङ्गड़ा-ऊना-सोलन-सिरमौर-सीमान्तक्षेत्रेषु च निरीक्षण-स्थानेषु दृढंपुलिस-निरीक्षणम् अस्ति बिलासपुर-पञ्जाब-सीमायाः मजारी-स्थाने अपि पुलिस-सतर्कः अस्ति । नाकास्थानेषु सशस्त्रसैनिकाः नियोजिताः सन्ति। हरियाणा-उत्तरखण्ड-समीपस्थेषु सीमासु अपि पुलिसकर्मचारिणां दृष्टिः वर्तते।