HP Election Commission : हिमाचले आदर्श आचारसंहिताया: कार्यान्वयनात् अधुना यावत् १४०६ उपालम्भा: प्राप्ता: – मुख्यनिर्वाचनाधिकारी
हिमसंस्कृतवार्ता- शिमला।
मुख्यनिर्वाचनाधिकारी मनीषगर्गः अवदत् यत् आदर्श- आचारसंहिताया: कार्यान्वयनानन्तरम् अद्यावधि प्राप्तानां १४०६ उपालम्भानां मध्ये १२३५ उपालम्भानां निस्तारणं कृतम्। सः अवदत् यत् राज्यसम्पर्ककेन्द्रे टोल फ्री संख्यायां ७७८ उपालम्भा: प्राप्ताः। तस्मिन् एव काले जिलासंपर्ककेन्द्रद्वारा १९५० आक्षेपाः पञ्जीकृताः, येषु ६९१ आक्षेपाः प्राथमिकतारूपेण निराकृताः। तदतिरिक्तं राज्य- जिला- एमसीसी-नोडल-अधिकारिणां माध्यमेन ३४९ उपलम्भा: प्राप्ताः, येषु २६६ उपालम्भा: निराकृता: सन्ति। सी-विजिल एप मार्गेण प्राप्तानां २७९ उपालम्भानाम् अन्वेषणं कृत्वा समयसीमायाः अन्तः निर्णयः कृतः, उल्लङ्घनस्य सन्दर्भे आवश्यकाः कार्यविधय: च कृता। एतावता प्राप्तानां उपालम्भानां ८८ प्रतिशतं निराकरणं जातम् इति सः अवदत्।
मण्डीसंसदीयक्षेत्रस्य भाजपाप्रत्याशिन: सभायां काजायां बाधाम् उत्पादयितुं कांग्रेसकार्यकर्तॄणां विरुद्धं प्राथमिकी पञ्जीकृता अस्ति। सः अवदत् यत् अन्वेषणप्रक्रिया प्रचलति, काङ्ग्रेसकार्यकर्तृणां विरुद्धं निर्वाचनाधिकारिणा एवम् उपविभागीयाधिकारिणा च सूचनाः निर्गताः। मनीषगर्गः अवदत् यत् हमीरपुरकाङ्ग्रेसयुथक्लबस्य उपयोक्तृणां कङ्गनारानौताया: विरुद्धं आभासीयपटले आपत्तिजनकसामग्रीं पोस्ट-करणस्य विषये भाजपाद्वारा कृतस्य उपालम्भस्य विषये अन्वेषणस्य विस्तृत- प्रतिवेदनसहितं एषः विषयः भारतस्य निर्वाचन- आयोगाय प्रेषितः।