HP Election: काङ्ग्रेसेन चीनदेशात् कति कोटिरूप्यकाणि गृहीतानि इति प्रकाशयितव्यम्- अनुरागठाकुर:
हिमसंस्कृतवार्ता- हमीरपुरम्।
मंगलवासरे केन्द्रीयमन्त्री अनुरागठाकुरः हमीरपुरमण्डलस्य बड़सरविधानसभाक्षेत्रस्य भ्रमणं कुर्वन् आसीत्। अस्मिन् काले केन्द्रीयमन्त्री अनुरागसिंहठाकुरः द्वादशाधिकमार्गसभासु भागं गृहीतवान्। एतस्मिन् समये केन्द्रीयमन्त्री अनुरागठाकुरः बड़सरस्य उपनिर्वाचनस्य भाजपाप्रत्याशिन: इन्द्रदत्तलखनपालस्य पक्षे स्वकृते मतदानं कर्तुं प्रार्थितवान् अस्ति।
काङ्ग्रेसनेतारः चीनदेशीयैः सह गुप्तकक्षे वार्तां कुर्वन्तः आसन्
केन्द्रीयमन्त्री अनुरागठाकुरः अस्मिन् काले काङ्ग्रेसस्योपरि घोररूपेण लक्ष्यं कृतवान्। सः अवदत् यत् सेनायाः शल्यक्रियाप्रहारविषये काङ्ग्रेसनेतारः प्रश्नान् उत्थापयन्ति, ते देशेन सह ज्ञानस्य प्रकटीकरणं कुर्वन्ति वा? अनुरागठाकुरः अवदत् यत् यदा भारतीयसेना ढोकलामे चीनीसेनायाः कृते उपयुक्तं उत्तरं ददाति स्म तदा काङ्ग्रेसनेतारः चीनीसेनया सह गुप्यकक्षे वार्तां कुर्वन्ति स्म।
‘पिहितद्वारेषु कीदृशानि हस्ताक्षराणि कृतानि इति राहुलगान्धी जनसामान्यं सूचयेत्’
अनुरागठाकुरः उक्तवान् यत् काङ्ग्रेसजनाः चीनीयदलेभ्यः धनं गृह्णन्ति। राहुलगान्धी चीनदेशात् किं गृहीतवान् इति जगत् ज्ञातुमिच्छति। राहुलगान्धी जनसामान्यं प्रति प्रकटयितव्यं यत् काङ्ग्रेसपक्षेण चीनदेशात् कियत् धनं गृहीतम्, कीदृशानि हस्ताक्षराणि पिहिद्वारेषु कृतानि। अनुराग ठाकुरः काङ्ग्रेसपक्षस्य विरुद्धं महत् आरोपं कृतवान् अस्ति। केन्द्रीयमन्त्री अनुराग ठाकुरः उक्तवान् यत् काङ्ग्रेसेन भारतस्य सीमानां चीन- पाकिस्तान- श्रीलङ्का- देशाय, कच्चा-थियू-द्वीपाय च दातुं कार्यं कृतम् अस्ति।
‘केन्द्रेण आपदि हिमाचलाय १७०० कोटिरूप्यकाणि दत्तानि’
तस्मिन् एव काले केन्द्रीयमन्त्री अनुरागठाकुरः अवदत् यत् आपदाकाले हिमाचलप्रदेशाय केन्द्रतः कोटिरूप्यकाणां सहायता कृता अस्ति। यस्य कृते हिमाचलप्रदेशः प्रधानमन्त्री नरेन्द्रमोदी इत्यस्मै सर्वात्मना आभारं प्रकटयति। केन्द्रीयमन्त्री अनुरागठाकुरः अवदत् यत् आपदासमये केन्द्रेण हिमाचलप्रदेशाय १७०० कोटिरूप्यकाणि दत्तानि, क्षतिमूल्यांकनार्थं हेलिकॉप्टरद्वयं प्रेषितम्। १३-१३ एनडीआरएफ-दलानि प्रेषितानि आसन्। केन्द्रे मोदीसर्वकारेण विंशतिसहस्राणि गृहाणि जनानां कृते वितरितानि सन्ति। तस्मिन् एव काले केन्द्रीयमन्त्री अनुरागठाकुरः अवदत् यत् सः बड़सरविधानसभाक्षेत्रस्य भ्रमणं कृतवान्, भारतीयजनतापक्षस्य च कृते जनानां बहु समर्थनं प्राप्यते।