HP Politics : भाजपाया: सार्थवाहे काँग्रेसकार्यकर्तृभि: शिलापात: कृत:, निर्वाचनायोगाय उपालम्भ: दीयते – जयरामठाकुरः
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
काजायां निर्वाचनप्रचारकाले काङ्ग्रेसकार्यकर्तृभि: मण्डीसंसदीयनिर्वाचनक्षेत्रस्य भाजपाप्रत्याशी कङ्गनारनौताया: विरुद्धं प्रदर्शनं प्रति भाजपया प्रहारं कृतम्। लाहौल-स्पीति विधानसभाक्षेत्रतः भाजपा प्रत्याशी रविठाकुरः अवदत् यत् सोमवासरे भाजपायाः सभा अभवत्, तत्सहकालं काङ्ग्रेसस्य सभा अपि अभवत्। सः आरोपितवान् यत् काङ्ग्रेसकार्यकर्तारः भाजपाकार्यकर्तृणां उपरि आक्रमणं कृतवन्तः। अस्मिन् एकः भाजपा कार्यकर्ता घातितः अस्ति। काङ्ग्रेसपक्षतः उपद्रवः अभवत् । निर्वाचन-आयोगाय एतस्य विषये उपालम्भ: प्रदत्ता भविष्यति। इदानीं विपक्षनेता जयरामठाकुरः आरोपितवान् यत् काजायां भाजपायाः सभायाः अनुमतिः गृहीता अस्ति तथापि समानान्तरप्रशासनेन काङ्ग्रेसाय सभायाः अनुमतिः दत्ता। असौ उक्तवान् यत् काङ्ग्रेसकार्यकर्तारः भाजपाया: सार्थवाहे पुनरागमने शिलापातं कृतवन्तः। एकः कार्यकर्ता आहतः अस्ति। एतादृशाभ्यः घटनाभ्यः स्पष्टं भवति यत् काङ्ग्रेसः आतङ्कितः अस्ति, सत्तायाः मद्यपानेन एतादृशेषु कार्येषु प्रवृत्तानां अधिकारिणां विरुद्धं निर्वाचन-आयोगाय प्रतिवेदनं दास्यते।