HP Election: मण्ड्यां नाहने च भविष्यति प्रधानमंत्रिण: मोदिन: निर्वाचनसभाः – जयरामठाकुरः
हिमसंस्कृतवार्ता- लघ्वीकाशी मण्डी।
पूर्वमुख्यमन्त्री तथा विपक्षनेता जयरामठाकुरः अकथयत् यत् प्रधानमन्त्रिण: नरेन्द्रमोदिन: हिमाचले आगमनेन जनाः पुनः एकवारं लोकसभानिर्वाचने राज्यस्य चत्वारि अपि आसनानि भाजपाय दास्यन्ति। मण्डीनगरस्य पड्डल-क्रीडाङ्गणे मई-मासस्य २४ दिनाङ्के प्रस्तावितायाः प्रधानमंत्री-मोदी-महोदयस्य सभायाः सज्जतायाः वृत्तान्तं गृहीत्वा सः मीडिया-सङ्घटनै: एतत् कथितवान्।
जयरामठाकुरः उक्तवान् यत् मई २४ दिनाङ्के हिमाचले प्रधानमन्त्रिण: नरेन्द्रमोदिन: द्वे सभे आयोजिते भविष्यत:। प्रातःकाले नाहननगरे अपराह्ने च लघ्वीकाश्यां मण्ड्यां सभा भविष्यति। अस्मिन् दिने प्रधानमन्त्री नरेन्द्रमोदी भाजपा प्रत्याशीनां कृते प्रचारं करिष्यति।
विक्रमादित्यः व्यक्तिगतटिप्पणीं कुर्वन् अतिक्रमणं करोति
तस्मिन् एव काले सः काङ्ग्रेसस्य प्रत्याशिनं विक्रमादित्यसिंहं परितः कृत्वा अवदत् यत् भाजपा प्रत्याशिन: विषये टिप्पणीं कर्तुं स्थाने काङ्ग्रेसस्य प्रत्याशी विषयेषु वार्तालापं कुर्यात्, केवलं विषयेषु एव निर्वाचनं प्रतिस्पर्धयतु इति। सः अवदत् यत् विक्रमादित्यसिंहः बहुवारं व्यक्तिगतटिप्पणीं कृत्वा अतिक्रमणं करोति, यस्य राजनीतिषु कोऽपि उपयोगः नास्ति।