HP Politics : ४ जूनतः न दृश्यते मुम्बई-नगर्य्या: सुन्दरी इति … विक्रमादित्यसिंहेन कङ्गनाया: ऊपरि व्यङ्ग्यम् कृतम्
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
मण्डीलोकसभासनात् काङ्ग्रेसस्य प्रत्याशी विक्रमादित्यः अवदत् यत् जूनमासस्य चतुर्थदिनात् मण्डीनगरे मुम्बई-नगर्य्या: सुन्दरी न दृश्यते। कुल्लू -मनाली सहितं मण्डी-जनाः जानन्ति यत् तेषां कृते निर्वाचनात् पूर्वं महोदया स्वां हिमाचली इति वक्तुं लज्जा भवति स्म । इदानीं सर्वत्र हिमाचलस्य कन्या इति कथ्यते। मनालीनगरस्य महोदया दुःखघटिकायां स्वस्य प्रतिवेशिनः, परिवारजनान् च न दृष्टवती ।
भाजपा वरिष्ठनेतॄणां अवहेलनां अकरोत् : विक्रमादित्यसिंह:
मनाली विधानसभाक्षेत्रस्य सोलाङ्गनालायां जगतसुखे मानल्यां च निर्वाचनसभां सम्बोधयन् विक्रमादित्यसिंहः अवदत् यत् भाजपा स्वस्य वरिष्ठनेतृणां अवहेलनां कृत्वा एकां अभिनेत्रीं निर्वाचितवती यस्याः वचनस्य कार्यस्य च कारणेन विवादः अस्ति। राज्ये अस्माकं धार्मिकसंस्कृतिः कमपि गोभक्षकं न स्वीकरोति।
कङ्गना आपदि सहायतां न कृतवती : काङ्ग्रेसस्य प्रत्याशी
आमिरखान इत्यादयः अभिनेतारः उदारतया हिमाचलस्य साहाय्यं कृतवन्तः परन्तु कङ्गना हिमाचलात् अन्तरं स्थापितम् । कङ्गना मोदीनाम्न: जपं त्यजतु। जनसमूहः विकासविषयेषु प्राधान्यं दास्यति न तु मोदीनाम्नि। पर्यटनदृष्ट्या राज्यस्य महत्त्वपूर्णपर्यटनस्थले कुल्लू मनालीनगरे चिकित्सामहाविद्यालयः नर्सिंगमहाविद्यालयः च प्राथमिकतारूपेण उद्घाटितः भविष्यति। मण्डीतः लाहौलपर्यन्तं पर्यटनस्य नूतनानि क्षेत्राणि विकसितानि भविष्यन्ति।
भाजपा २०० आसनपर्यन्तं स्थास्यति : विक्रमादित्यसिंहः
जलोड़ी जोत तथा भूभु जोत इत्यत्र कदरानिर्माणम् अपि तस्य प्राथमिकता अस्ति। जयरामठाकुराय स्वस्य प्रत्याशिने मंडीसंसदीयक्षेत्रस्य विषये सत्यज्ञानं दातव्यम्। ४०० इति घोषम् उत्थापयन्तः २०० यावत् न्यूनीभवन्ति। सः अवदत् यत् राजनीतिषु लोकसेवायाः कृते बहुकालं समर्पयितुं भवति, यत् कङ्गनाया: नास्ति। कङ्गना इत्यस्याः सम्पूर्णं चलच्चित्रस्य शूटिंग् जूनमासस्य ४ दिनाङ्के पूर्णं भविष्यति।
पूर्वभाजपा-सर्वकारेण यदा राज्यस्य राजदूतः भवितुम् आह तदा सा सर्वकारात् प्रतिदिनं ४५ लक्षरूप्यकाणि याचितवती आसीत् । मनाली विधायक: भुवनेश्वरगौड़: इत्यनेन उक्तं यत् विक्रमादित्यसिंहः मण्डीसंसदीयनिर्वाचनक्षेत्रात् विशालमतैः विजयं प्राप्स्यति। सः मनालीतः अग्रतां प्राप्स्यति। सः भाजपा-पक्षे काङ्ग्रेस-सर्वकारं अस्थिरं कर्तुं प्रयतते इति आरोपं कृतवान् ।