SPU Mandi : छात्राः स्वलक्ष्यं प्राप्तुं परिश्रमं कुर्वन्तु- प्रो. ललित कुमार अवस्थी
हिमसंस्कृतवार्ता:-डॉ. अमित शर्मा
इतिहास सोसायटी इत्यस्या: अध्यक्षा पुनीत भारती, उपाध्यक्ष जितेन कुमार:, सचिव: जतिन कुमार:, सह सचिव: सरिता कुमारी सहितं सोसायटी इत्यस्या समस्तसदस्या: कुलपतिमहोदयाय महात्मा बुद्धस्य प्रतिमा स्मृतिचिह्नरूपेण दत्त्वा अभिनन्दितवन्तः। प्रो. ललित कुमार अवस्थी विद्यार्थिभि: सह विस्तारपूर्वकं संवादं कृत्वा तेषां लक्ष्यविषये चर्चा कृता। सः आह्वानं कृतं यत्ते अध्ययनेन सह निर्धारितलक्ष्यप्राप्तये अपि प्रयत्नशीला: भवेयु:। सः विद्यार्थिनाम् उज्ज्वलभविष्याय तेषां मार्गदर्शनमपि अकरोत्, विभागं च प्रतियोगीपरीक्षाणां सिद्धतायै अतिथिव्याख्यानं कारयितुम् अकथयत्। उपलक्ष्येऽस्मिन् इतिहासविभागस्य प्रभारी डॉ. राकेश कुमार शर्मा विभागद्वारा आयोजितानां विभिन्नगतिविधीनां वर्णनं कृतवान्। इतिहास सोसायटी इत्यस्या: अध्यक्षा पुनीत भारती सोसायटीगठनं कार्यप्रणालीविषये च बोधितवती, कुलपतिवर्यं च विभागमागन्तुं निमंत्रण च दत्तवती। अस्मिन् अवसरे इतिहाससोसायटीसंयोजक: राजेश शर्मा, सहायकाचार्य: डॉ राम पाल:, विकेश कुमार:, अतिथिप्राध्यापक: कृष्णचंद:, पीएचडी शोधार्थी सुरेखा, राहुल:, विनोद:, वेद कुमार:, यू जी सी नेट उत्तीर्ण: कर्मा दोरजे, मीडिया क्लबस्य अध्यक्ष: सुभमवालियासहितम् इतिहाससोसायटी इत्यस्या: सर्वे सदस्या उपस्थिता: आसन्।