BJP Himachal : हिमाचल-भाजपात: पूर्वमन्त्री रामलालमार्कण्डेय:, राकेशचौधरी च निष्कासितौ
हिमसंस्कृतवार्ता- शिमला।
भारतीयजनतापक्षेण पूर्वमन्त्री रामलालमार्कण्डेयः, राकेशचौधरी च दलात् निष्कासितौ। निष्कासनसम्बद्धे निर्गताया: सूचनानुसारं रामलालमार्कण्डेयविषये लिखितम् आसीत् यत् भवान् दलस्य अधिकृतप्रत्याशिना विरुद्धं स्वतन्त्रप्रत्याशीरूपेण लाहौल- स्पीतिविधानसभा- उपनिर्वाचनं प्रतिस्पर्धयति। यत् अनुशासनहीनतायाः व्याप्तेः अन्तर्गतम् आगच्छति।
षड् वर्षाणि यावत् सदस्यता निरस्तीकृता
अतः भवतः विरुद्धं कार्यविधि: कृत्वा भवतः प्राथमिकसदस्यता तत्काल- प्रभावेण षड् वर्षाणि यावत् स्थगिता अस्ति इति सूचनायां अपि पठितम्। तथैव राकेशचौधरी अपि धर्मशालातः उपनिर्वाचनं प्रतिस्पर्धयति। तस्य प्राथमिकसदस्यता अपि षड्वर्षाणि यावत् निरस्तीकृता अस्ति। एषा सूचना भाजपा प्रदेशाध्यक्षेण डॉ राजीवबिन्दलेन प्रकाशिता अस्ति।
नामपत्रं न प्राप्य निर्दलीय: निर्वाचनं प्रतिस्पर्धयत:
अवधेयं वर्तते यत् हिमाचललोकसभानिर्वाचनेन सह राज्यस्य षट् विधानसभासनेषु उपनिर्वाचनमपि भवति। अस्मिन् काङ्ग्रेसं त्यक्त्वा भाजपायां सम्मिलितानाम् विधायकानां कृते भाजपया अवसरः दत्तः अस्ति। धर्मशालातः सुधीरशर्मा, रविठाकुरः लहौलस्पीतितः प्रतियोगं करोति। एतेभ्यः आसनेभ्यः राकेशचौधरी, सुधीरशर्मा च स्वस्य अधिकारं स्थापयन्ति स्म। परन्तु दलेन तस्मै नामपत्रं न दत्तम्। तदनन्तरं तौ द्वौ अपि स्वतन्त्रप्रत्याशीरूपेण निर्वाचनं कर्तुं निश्चयं कृतवन्तौ।