PM Modi : मोदिन: प्रतिज्ञा अस्ति – विपक्षीजना: यावत् शक्यं शक्त्या: प्रयोगं कुर्वन्तु नागरिक- संसोधन-अधिनियमम् अपसारयितुं न शक्नुवन्ति
हिमसंस्कृतवार्ता- नवदेहली।
लोकसभानिर्वाचनस्य शेषचरणस्य प्रचारः तीव्रः अभवत्। विभिन्नराजनैतिकदलानां प्रमुखाः नेतारः सभाः, जनसभाः च कुर्वन्ति । प्रधानमन्त्री भारतीयजनतापक्षस्य वरिष्ठनेता च नरेन्द्रमोदी उक्तवान् यत् नागरिकतासंशोधनविधेयकम् मोदीप्रतिश्रुते: दीप्तिमत् उदाहरणम् अस्ति तथा च भाजपा स्वप्रतिज्ञां पूरयति इति स्पष्टम्।
उत्तरप्रदेशस्य जौनपुरे मोदीमहोदयः अवदत् यत् एतत् लोकसभानिर्वाचनं देशस्य कृते एतादृशं नेतारं निर्वाचयितुं अवसरः अस्ति यः सशक्तं सर्वकारं चालयितुं शक्नोति तथा च विश्वं भारतस्य सामर्थ्यस्य विषये अवगतं कर्तुं शक्नोति।
ततः पूर्वं आजमगढमण्डलस्य लालगञ्जक्षेत्रे मोदीमहोदयः अवदत् यत् समाजवादीदलम् काङ्ग्रेसः च एकस्यैव मुद्रायाः द्वौ पक्षौ स्तः, ते च पारिवारिके भ्रष्टाचारे च प्रवृत्ताः सन्ति।
भदोही-सभायां सः अवदत् यत् अद्यतन-श्रीनगर-निर्वाचने महता मतदानेन उपत्यकायाः जनानां सुखं दर्शयति। अधुना जम्मू-कश्मीरतः मतबैङ्कराजनीतिः समाप्तुं गच्छति। प्रतापगढमण्डले आयोजितायां सभायां मोदीमहोदयेन राज्ये समाजवादीपक्षस्य तृणमूलकाङ्ग्रेसस्य च गठबन्धनस्य दृढ़तया आलोचना कृता। अद्य बाराबङ्की, फतेहपुरं, हमीरपुरं च निर्वाचनक्षेत्रेषु मोदीमहोदयः त् अपि सभात्रयं सम्बोधयिष्यति।