Election Commission of India : भारत- निर्वाचनायोगस्य पर्यवेक्षकेण लोकसभानिर्वाचदृष्ट्या कृता गोष्ठी
हिमसंस्कृतवार्ता:- लघ्वीकाशी मण्डी।
लोकसभा- सामान्यनिर्वाचनम् 2024 इत्यभिलक्ष्य संसदीयनिर्वाचनक्षेत्रम् 2-मण्डी इत्यस्तान्तर्गत षट्जनपदानां सप्तदशधानसभानिर्वाचनक्षेत्रेभ्य: भारतस्य निर्वाचनायोगेन नियुक्त: पर्यवेक्षक: भारतीयप्रशासनिकसेवाया: अधिकारी विनीत नंदनवार: बुधवासरे लोकसभानिर्वाचनहेतवे नियुक्तेभ्य: नोडलाधिकारिभ्य: उपायुक्तकार्यालये निर्वाचनसम्बद्धानां विविधव्यवस्थानां विषये सूचनां गृहीत्वा तेभ्यः आवश्यकान् निर्देशान् अवदत्।
सामान्यपर्यवेक्षकेन ईवीएम-वीवीपीएटी दृढ़कक्षेषु तथा गणनाकेन्द्रेषु आवश्यकव्यवस्थानां समीक्षा कृता, मतदानकर्तव्ये नियुक्तानां अधिकारिणां कर्मचारिणां च प्रशिक्षणं तेषां निवासव्यवस्था च, पुलिस-गृहरक्षकाणां नियुक्ति:, सर्वेषु मतदानकेन्द्रेषु आवश्यकसुविधानां स्थितिः, एम. सी. एम. सी नियन्त्रणकक्षं, सुविधाएप एवं सी-विजिल एप इति, डाकमतपत्रं, ईडीसी, गृहमतदानं इत्यादीनां व्यवस्थानां विषये अधिकारिभ्य: सूचना गृहीता। सः निर्वाचनकर्तव्ये नियोजितानां कर्मचारिणां पारदर्शिकं, निष्पक्षं, स्वतन्त्रं च निर्वाचनं कर्तुं पूर्णसमर्पणेन कार्यं कर्तुं निर्देशं दत्तवान् तथा च यत्किमपि प्रकारस्य प्रमादं सर्वथा न सह्यते इति च अवदत्। अस्मिन् काले सः निर्वाचनाधिकारिभ्यः एतादृशी व्यवस्थां कर्तुं पृष्टवान् यत् कोऽपि मतदाता मतदानात् बहिः न अवशिष्यते, मतदातत्वषॄणां मतदानस्य गोपनीयताया: च पूर्णतया पालनं सुनिश्चितं भवेत्।