Lok Sabha Election 2024 : मण्डीसंसदीयक्षेत्रतः कङ्गनया नामाङ्कनं पूरितम्
हिमसंस्कृतवार्ता- लघ्वीकाशी मण्डी।
मंगलवासरे भारतीयजनतापक्षस्य प्रत्याशी चलचित्राभिनेत्री च कङ्गनारणौत देशे सर्वत्र उष्णासनं जातं मण्डीसंसदीयक्षेत्रम् इत्यस्मात् निर्वाचनाधिकारिण: अपूर्वदेवगनस्य समक्षं नामाङ्कनपत्रं पूरितवती। नामाङ्कनात् पूर्वं भाजपया पड्डलप्राङ्गणतः उपायुक्तस्य कार्यालयं प्रति भव्यं मार्गप्रदर्शनं कृतम्। अस्मिन् सहस्राधिका: भाजपा कार्यकर्तारः भागं गृहीत्वा घोषोद्घोषै: नगरे सर्वत्र नृत्यं गायनं च कृत्वा उपायुक्त- कार्यालयस्य द्वारं प्राप्तवन्तः। भव्यपथप्रदर्शनस्य इत्यस्य माध्यमेन कुत्रचित् भाजपा अपि काङ्ग्रेसस्य सद्यैव कृताया: नामाङ्कनसभायाः प्रतिक्रियां दातुं प्रयतते स्म। तदनन्तरं कङ्गना पूर्वमुख्यमन्त्री तथा विपक्षनेता जयरामठाकुर, भाजपा प्रदेशाध्यक्ष: डॉ. राजीवबिन्दल:, तस्याः माता च इत्यैतै: सह निर्वाचनाधिकारिण: समक्षं गत्वा नामाङ्कनपत्रं पूरितवती। मीडिया-व्यक्तिभिः सह वार्तालापं कुर्वन्ती कङ्गना अवदत् यत् अद्य सम्पूर्णे मण्डी-संसदीय-क्षेत्रे तस्याः नामाङ्कनसम्बद्धे उत्सव-वातावरणं दृश्यते। अद्य मण्डीक्षेत्रस्य पुत्री निर्वाचनक्षेत्रे अस्ति, यत्किमपि मूल्येन विजयी कर्तव्या इति विषये जनानां मध्ये अधिकः उत्साहः वर्तते। कङ्गना उक्तवती यत् अत्र यः जनसमूहः समागतः सः अवश्यमेव भाजपायाः पक्षे मतदानं करिष्यति परन्तु ये न आगताः ते अपि भाजपायाः पक्षे मतदानं करिष्यन्ति।
पृष्टस्य प्रश्नस्य उत्तरं दत्त्वा कङ्गना अवदत् यत् चलच्चित्रजगति यत् नाम अर्जितवती, अधुना सा राजनीतिषु अपि महत् नाम अर्जयितुं प्रयतते। विश्वस्य बृहत्तमस्य दलस्य प्रत्याशीरूपेण निर्वाचनं कर्तुं अवसरः प्राप्तः इति तस्या सौभाग्यम् इति सा अवदत्।