HP Election 2024 : हिमाचले चतुर्षु लोकसभासनेषु षट् विधानसभासनेषु च आहत्य ८४ प्रत्याशिन: निर्वाचनप्राङ्गणे सन्ति
हिमसंस्कृतवार्ता- शिमला।
सप्तमे चरणे हिमाचलप्रदेशस्य चतुर्भ्य: लोकसभासनेभ्य:, षट्विधानसभासनेभ्य: च जूनमासस्य प्रथमदिनाङ्के आयोज्य कुलम् ८४ प्रत्याशिन: निर्वाचनसमरे स्पर्धयिष्यन्ति। नामाङ्कनस्य अन्तिमदिने मंगलवासरे कुलम् २७ अभ्यर्थिनः नामाङ्कनं पूरितवन्तः। एतेषु मण्डी संसदीय निर्वाचनक्षेत्रस्य भाजपा प्रत्याशी कङ्गना रणौत अपि अन्तर्भवति। लोकसभानिर्वाचनार्थं पञ्चमहिलासहिताः कुलम् ५१ अभ्यर्थिनः नामाङ्कनं कृतवन्तः, षट् विधानसभाक्षेत्रेषु उपनिर्वाचनार्थं तिसृभि: महिलाभि: सह ३३ अभ्यर्थिनः नामाङ्कनं कृतवन्तः।
राज्यस्य मुख्यनिर्वाचनपदाधिकारी मनीषगर्गः अवदत् यत् लोकसभानिर्वाचनानां विधानसभा- उपनिर्वाचनानां च षष्ठदिने मंगलवासरे २७ नामनिर्देशाः प्रविष्टा:। हमीरपुर- संसदीयनिर्वाचनक्षेत्रात् – ३, मण्डीतः – ७, काङ्गड़ातः -६, शिमलातः एकेन च नामाङ्कनं कृतम् । विधानसभाया: उपनिर्वाचनार्थं मंगलवासरे १० नामाङ्कनानि अभवन् । मण्डीसंसदीय निर्वाचनक्षेत्रात् कंगना रनौत नामांकनं पूरितवती। गोविन्दसिंहठाकुर: समुपयोगप्रत्याशीरूपेण नामांकनम् अकरोत् । अनेन सह दिनेशकुमार: भाटी, लायकराम: नेगी, सुभाषमोहन: स्नेही, राखीगुप्ता, सुखराम: च निर्दलीयप्रत्याशीरूपेण नामांकनपत्राणि पूरितवन्तः।
सुमित:, सुरेन्द्रकुमार:, नंदलाल: च हमीरपुरत: नामांकनं कृतवन्त:। कुंदनलालकश्यपः शिमलातः निर्दलीय प्रत्याशीरूपेण नामांकनं पूरितवान् । अस्य अतिरिक्तं काङ्ग्रेसस्य प्रत्याशी विनोदसुल्तानपुरी, बहुजन समाजपक्षस्य प्रत्याशी अनिलकुमारः च अन्यत् नामांकनसमूहं कृतवन्तः।
कांगड़ासंसदीयनिर्वाचनक्षेत्रात् भुवनेशकुमार: अखिल-भारतीय परिवार-पार्टी, राष्ट्रीयसमाजदलात् देवराज:, निर्दलीयप्रत्याशीरूपेण संजयशर्मा, संजयकुमार: राणा, कांग्रेसस्य समुपयोगप्रत्याशीरूपेण आशीषबुटेल: नामांकनं पूरितवन्त:। धर्मशाला विधानसभाक्षेत्रात् सुधीरशर्मा भाजपा, देवेन्द्रसिंहः काङ्ग्रेसपक्षे, सुरेशकुमारः निर्दलीयत्वेन च नामाङ्कनं पूरितवन्तः । राजेन्द्रसिंहवर्मा शेरसिंह: च सुजानपुरत: निर्दलीयप्रत्याशीत्वेन, गगरेटत: चैतन्यशर्मा भाजपा, अमित वशिष्ठ:, रविन्द्रकुमार: च निर्दलीयप्रत्याशीत्वेन नामांकन कृतवन्त:। बड़सरतः सुभाषचन्दः काङ्ग्रेसस्य प्रत्याशीरूपेण, विशालकुमारः निर्दलीयप्रत्याशीरूपेण च नामाङ्कनं कृतवन्तौ । मंगलवासरे कुटलैहड़-लाहौल-स्पीतिक्षेत्रयोः कोऽपि नामाङ्कनं न प्राप्तम्।
नामाङ्कनपत्राणां अनुक्रमणं मे १५ दिनाङ्के भविष्यति, नामाङ्कनस्य निवृत्तिः १७ दिनाङ्कपर्यन्तं भविष्यति
बुधवासरे नामाङ्कनपत्राणां अनुक्रमणं भविष्यति। मे १७ दिनाङ्कपर्यन्तं नामानां निवृत्ति: कर्तुं शक्यते। मतदानं जूनमासस्य प्रथमे दिनाङ्के भविष्यति, मतदानस्य गणना जूनमासस्य चतुर्थे दिने भविष्यति। निर्वाचनप्रक्रिया जूनमासस्य ६ दिनाङ्के सम्पन्ना भविष्यति।