स्वदेशीय-प्रौद्योगिक्याः उपयोगेन जलस्य आविष्कारः
हिमसंस्कृतवार्ता – काङ्गड़ा।
यत्र विज्ञानं विफलं भवति तत्र मनुष्यस्य स्वदेशीया-प्रौद्योगिकी सफला भवति। जाङ्गलपञ्चायतस्य जनाः अपि तथैव सिद्धं कृतवन्तः । जवाली-विधानसभाक्षेत्रस्य अन्तर्गत जाङ्गल-पंचायते जलस्य घोराभावः अस्ति। तकनीकी आधारेण जाङ्गलपंचायत: जलदृष्ट्या शुष्क: घोषित: अस्ति। जलस्य अभावं दूरीकर्तुं स्वस्तरस्य हस्तपम्प-इति स्थापयितुं स्थानीयजनैः अपि प्रयत्नाः कृताः, परन्तु प्रत्येकं समये तेषां असफलता अभवत् कश्चन अपि प्रयासः सफलः न अभवत् किन्तु जनै: साहसं न त्यक्तम् । निरन्तरं प्रयत्नाः अभवन् अन्ते सफलता प्राप्ता । जलसमस्यात: पीड़ितै: जांगलपञ्चायतस्य, अमरकौशल:, कप्तान ठाकुरदास:, किकरसिंह:, सालीराम:, केवलधीमान: इत्यादय: प्रयत्नं कुर्वन्त: स्वदेशीतकनीकस्य उपयोगेन जलस्तरं अन्वेष्टुं अभ्यास: कृत: जलसमस्यायाः मुक्तिं प्राप्तुं यन्त्रं स्थापयित्वा प्रायः २५० पादगभीरतायां जलस्य स्रोतः प्राप्तः।
जलस्रोतं ज्ञात्वा ४०० पादगभीरतापर्यन्तं खननं कृत्वा विद्युत्मोटरं स्थापयित्वा जलापूर्ति: आरब्धा अस्ति । अस्य हस्तपम्पस्य बोरस्य पर्याप्तमात्रायां जलस्य निर्गमनस्य कारणेन जाङ्गलपञ्चायते सुखस्य तरङ्गः वर्तते। जाङ्गलपंचायते ग्रामजनाः जलस्य अभावात् संबलं प्राप्तुं शक्नुवन्ति तथा च सफलस्य विद्यमानजलबोरस्य स्थाने कृषिविभागात् अनुदानं प्राप्तुं धीमान बोरवेल् समितिं निर्मातुं तस्याः पञ्जीकरणस्य प्रक्रियां कार्यान्वितं क्रियते येन सम्बन्धितविभागः शक्नोति अनुदानं प्राप्तुं शक्यते।