Pandoh Dam: पण्डोह-जलबन्धे जलस्तरः वर्धित:, जनाः ब्यास-नदीं निकषा न गच्छेयुः जना:
हिमसंस्कृतवार्ता- लघ्वीकाशी मण्डी।
मण्डीजनपदस्य पण्डोहजलबन्धे जलस्तरस्य महती वृद्धिः अभवत्। वर्धमानं जलस्तरं दृष्ट्वा जलबन्धात् जलं कदापि व्यासनद्यां मोचयितुं शक्यते। अस्य कृते बीबीएमबी- संस्थानेन एकसप्ताहपूर्वं सूचना कृता। गतदिवसे प्रातः ५ वादनात् आरभ्य बीबीएमबीद्वारा वाहने ध्वनिविस्तारकयन्त्रं स्थापयित्वा अपि जना: सचेतिता: यत् ते ब्यासनद्याः तटं न गच्छेयुः, यतः पण्डोह- जलबन्धात् कदापि जलं मोचयितुं शक्यते। अस्य विषये सूचनां दत्त्वा बीबीएमबी-प्रबन्धनस्य वरिष्ठकार्यकारी अभियंता विवेकचोपड़ा अवदत् यत् पण्डोहबन्धजलाशयस्य जलस्तरः तीव्रगत्या वर्धमानः अस्ति तथा च जलं कदापि मुक्तं कर्तुं शक्यते।