Lok Sabha Election 2024: कांग्रेसप्रत्याशी विक्रमादित्यसिंह:, आनन्द: शर्मा च नामांकनं कृतवन्तौ
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
हिमाचलप्रदेशस्य मण्डी संसदीयासनतः काङ्ग्रेसस्य प्रत्याशी विक्रमादित्यसिंहः, काङ्गड़ातः आनन्दशर्मा च गुरुवासरे नामांकनपत्रं कृतवन्तौ। विक्रमादित्यस्य नामांकने मुख्यमंत्री सुखविन्दरसिंहसुक्खुः, राज्यप्रभारी राजीवशुक्ल:, प्रदेशकांग्रेसस्य अध्यक्षा प्रतिभासिंह, पूर्वमंत्री कौलसिंहठाकुर: अन्ये च पदाधिकारिण: उपस्थिता आसन्। अस्मिन् समये विक्रमादित्यः अपि शक्तिं प्रदर्शितवान्। नामाङ्कनानन्तरं मीडियाभिः सह वार्तालापं कुर्वन् राजीवशुक्लः विश्वास: अकरोत् यत् विक्रमादित्यसिंहः लक्षद्वयाधिकान्तरेण विजयं प्राप्स्यति।
भाजपायाः वास्तविकं मुखं जनाः ज्ञातवन्तः- सुक्खुः
इतरथा मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् राज्यस्य जनाः भाजपायाः वास्तविकं मुखं ज्ञातवन्तः। तत्र सर्वकारस्य पतनस्य प्रयासः आसीत्, अधुना तस्य उत्तरं प्राप्स्यति। आपदा प्रभावितस्थितौ अस्मिन् निर्वाचने काङ्ग्रेसपक्षः यथा क्रीडितः। १५ मासस्य कार्यकालः, यस्मिन् सामान्यजनसम्बद्धेषु विषयेषु कार्यं कृतम् । एतान् सर्वान् विषयान् वयं सार्वजनिकन्यायालये स्थापयिष्यामः। काङ्गड़ा-चम्बा संसदीयासनतः काङ्ग्रेस प्रत्याशी आनन्द: शर्मा धर्मशालायां नामांकनं पूरितवान्। अस्मिन्नवसरे अपि मुख्यमंत्री सुखविन्दरसिंहसुक्खुः, उपमुख्यमंत्री मुकेश अग्निहोत्री, कांग्रेसप्रदेशाध्यक्षा प्रतिभासिंह, कांग्रेसस्य प्रदेशप्रभारी राजीवशुक्ल: आदय: उपस्थिता आसन्।
जयरामस्य पटकथायुक्तं चलचित्रं जूनमासस्य ४ दिनाङ्के ‘बाक्स ऑफिस इत्यत्र असफलं भविष्यति
नामाङ्कनानन्तरं विक्रमादित्यसिंहः अवदत् यत् अद्यपर्यन्तं मान्या (कङ्गना) मण्डीविषये स्वस्य दृष्टिविषये एकमपि वचनं न उक्तवती। विकासविषयेषु वयं युद्धं करिष्यामः। वयं विकासस्य राजनीतिं कुर्मः, ते मनोरञ्जनस्य राजनीतिं कुर्वन्ति। अस्य निर्देशकः जयरामठाकुरः अस्ति। जयरामस्य पटकथाकृतम् एतत् भाजपा-चलचित्रं जून- मासस्य चतुर्थे दिने ‘बाक्स- ऑफिस-मध्ये’ अवश्यमेव असफलं भविष्यति। असौ उक्तवान् यत् वयं केवलं विषयेषु निर्वाचनं करिष्यामः। संसदीय निर्वाचनक्षेत्रे सीएसडी- कैंटीन डिपो, सैन्य-अकादमी, भृगु- जोत- कन्दरा, जलोड़ीजोत- कन्दरा (CSD Canteen, Depot, Army Academy, Bhrigu Jot Tunnel, Jalodi Jot Tunnel) इत्येतेषां निर्माणं तस्य प्राथमिकता भविष्यति।
राजीव: भारद्वाज: तथा सतपालरायजादा १०, सुल्तानपुरी च १३ दिनांके नामांकनं करिष्यन्ति
हमीरपुरसंसदीयक्षेत्रत: कांग्रेसप्रत्याशी सतपालरायजादा तथा शिमलासंसदीयक्षेत्रात् प्रत्याशी विनोदसुल्तानपुरी च मई १३ दिनांके नामांकनं करिष्यत:। अस्मिन् काले अपि काङ्ग्रेसपक्षः हमीरपुरे, शिमलानगरे च निर्वाचनजनसभाः करिष्यति। कांगड़ा-चम्बा संसदीयक्षेत्रत: भाजपाप्रत्याशी डॉ. राजीवभारद्वाज: १० दिनांके नामांकनं करिष्यति।